SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ भूमिका निर्विवादमिदं विपश्चिदपश्चिमानां यद्धर्मार्थकाममोक्षेषु चतुर्विधेषु पुरुषार्थेषु मोक्ष एवात्यन्तिकः पुरुषार्थः । तत्सम्पत्तिश्च श्रवणमनननिदिध्यासनाधीनात्मसाक्षात्काराधीना न स्वोत्पत्तौ सहकारितयापि कर्मादीनपेक्षते । तत्र निखिलशास्त्रधुरीणवेदान्तेषु प्रसिद्धापि सा नैयायिकमते जीवब्रह्मभेदस्य जागरूकत्वात् कथं सङ्गच्छत इत्याशङ्कापिशाचीप्रसारनिःसारणक्षमः श्रीमान् नव्यनैयायिकाग्रणीर्गदाधरभट्टाचार्यः "तदत्यन्ताभावविमोक्षोऽपवर्गः" इति प्राचीनमुक्तिपदार्थलक्षणघटकात्यन्तिकपदस्य प्रतिवादिदुर्घटकल्पनानिघर्षणपूर्वकं यया युक्त्याऽर्थं कृत्वा मुक्तिवादे तादृशीं मुक्तिं जीवब्रह्मयोर्भेदेऽपि स्थापितवान् तदिदं ग्रन्थगर्भावलोकनेनैव दृष्टिपथमुपयास्यति विदुषाम् । तदिदमीदृशसुनिपुणविद्वद्वरधुरीणमात्रज्ञेयग्रन्थव्याख्यानप्रथमसाहसं क्षमिष्यन्ते नैयायिकप्रवराः कर्मणा चानेन प्रीयतां जगदाधारः श्रीमान् पशुपतिरिति कृताञ्जलिः प्रार्थयते सुधीजनविधेयः ढुण्डिराजशास्त्री
SR No.009262
Book TitleMuktivad
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages285
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy