________________
भूमिका
निर्विवादमिदं विपश्चिदपश्चिमानां यद्धर्मार्थकाममोक्षेषु चतुर्विधेषु पुरुषार्थेषु मोक्ष एवात्यन्तिकः पुरुषार्थः । तत्सम्पत्तिश्च श्रवणमनननिदिध्यासनाधीनात्मसाक्षात्काराधीना न स्वोत्पत्तौ सहकारितयापि कर्मादीनपेक्षते । तत्र निखिलशास्त्रधुरीणवेदान्तेषु प्रसिद्धापि सा नैयायिकमते जीवब्रह्मभेदस्य जागरूकत्वात् कथं सङ्गच्छत इत्याशङ्कापिशाचीप्रसारनिःसारणक्षमः श्रीमान् नव्यनैयायिकाग्रणीर्गदाधरभट्टाचार्यः "तदत्यन्ताभावविमोक्षोऽपवर्गः" इति प्राचीनमुक्तिपदार्थलक्षणघटकात्यन्तिकपदस्य प्रतिवादिदुर्घटकल्पनानिघर्षणपूर्वकं यया युक्त्याऽर्थं कृत्वा मुक्तिवादे तादृशीं मुक्तिं जीवब्रह्मयोर्भेदेऽपि स्थापितवान् तदिदं ग्रन्थगर्भावलोकनेनैव दृष्टिपथमुपयास्यति विदुषाम् ।
तदिदमीदृशसुनिपुणविद्वद्वरधुरीणमात्रज्ञेयग्रन्थव्याख्यानप्रथमसाहसं क्षमिष्यन्ते नैयायिकप्रवराः कर्मणा चानेन प्रीयतां जगदाधारः श्रीमान् पशुपतिरिति कृताञ्जलिः प्रार्थयते
सुधीजनविधेयः ढुण्डिराजशास्त्री