Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 150
________________ मन्त्रियशःपालविरचितं [पञ्चमोपुण्योदयपरीपाको मामकीनो विजृम्भते । यदस्मिन् समये जज्ञे विवेकस्य समागमः ॥ १४ ॥ विवेकचन्द्रः-सर्वत्र परिभ्रान्तोऽस्मि । परं नालोकितवान् लोकोत्तरगुणं निर्जितानेकरणं पुण्यसत्तमं पुरुषोत्तमं भवादृशम् । तत्वदर्शनसुधासागरे स्वच्छन्दं क्रीडया प्राप्नोतु सुधासारसुखं मे दृष्टिः । किञ्च-- उच्चैःकारितवीतरागभवनव्याजेन रोमाञ्चितां निःशेषव्यसनान्धकारपटलच्छेदेन पुण्येक्षणाम् । न्यायोत्सङ्गसुखोपलालिततनुं वीक्ष्य क्षमायोषितं युष्मद्गीतपवित्रकीर्त्तिविशदां मे स्यात्प्रमोदोदयः ॥ १५ ॥ राजा-(सहर्षे) भवत्संपर्केण सर्व साधु संवृत्तम् । तथा च.. पारावारपयो निपीय शतशः प्रच्छाद्य सूर्यातपं नम्रीभूय निरीक्ष्य नाम वसुधां तप्तप्रजां विद्युता। निर्व्यानं जलसंपदा विहितवानानन्ददानोद्यतां पाथोदः खलु साधु साधुचरितं किं किं न कर्तुं क्षमम् (म:)? ॥१६॥ विवेकचन्द्रः-(स्वगतं ) अहो ! गुणज्ञोऽयं पवित्रोऽयं गुणानामधिष्ठानमयं च । तावन्मानसकल्पनासविभवो भूयिष्ठगर्यो मया दृष्टो दृष्टिसहस्रपङ्कजततिभ्राजिष्णुदेहद्युतिः । इन्द्रः पीतविरुद्धगन्धमदिराव्यालोलरक्ताक्षिभिः सेव्यः स्वर्गविलासिनीभिरनिशं तस्मात्कुतः पावनः? ॥१७॥ भवतु तावत् । (प्रकाशं ) सर्वज्ञधर्मजागरूक ! परदोषमूक! कच्चित्परिज्ञातं मोहराजस्वरूपम् । कस्मिन् विषये स पापीयान् यतते ?। राजा-आर्य! तस्योपक्रमं परिज्ञातुं समादिष्टो ज्ञानदर्पणश्चिरयति । (नेपथ्ये) भोः प्रतीहार ! निवेदय झगिति ज्ञानदर्पणं देवाय । राजा-(श्रुत्वा सौत्सुक्यं ) प्रतीहार ! प्रवेशय ज्ञानदर्पणं सत्वरम् । १ न्दक्रीड' २ ० 'धु वृत्तं. ३ ० किल. ४ A पवित्रोऽयं पवित्रोऽयं. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192