Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 159
________________ मोहरानपराजयम् । १२३ (प्रविश्य ) प्रतीहारः-देव ! पुण्यकेतुः स्वामिनो दर्शनमभिलषति । राजा-अविलम्बं प्रवेशय । प्रतीहारः-यदाज्ञापयति देवः । ( इति निष्क्रम्य पुण्यकेतुना सह प्रविशति । ) पुण्यकेतुः (स्वगतं) एष देवस्तदुपसर्वामि । (उपमृत्य) जयतु जयतु देवः । राजा-(ससंभ्रमं) इदमासनमास्यताम् । (पुण्यकेतुस्तथाकरोति ।) राजा-अमात्य ! कच्चिदप्रतर्कितमागमनम् । अमात्यः-देव ! प्रसादनानो राजपुरुषस्य हस्ते प्रहितमिदं गुरुणा श्रीहेमचन्द्रेण भवतो युद्धश्रद्धालुमनसो योगशास्त्रं नाम वज्रकवचम् । अमुना हि संवृतसर्वाङ्गो न भिद्यते रिपुप्रहरणपरम्पराभिः। पुरुषः-इमाश्च वीतरागस्तुतिसंज्ञा विंशतिर्दिव्यगुलिकाः । आभिर्मुखकमलमलङ्कृत्य स्थिताभिः पुरुषः परेषामदृशो भवति । ( इति वज्रकवचं दिव्यगुलिकाश्चोपनयति ।) राजा-दिष्ट्या परमनुगृहीतोऽस्मि गुरुणा । (इति वज्रकवचं परिधाय दिव्यगुलिकाश्चोपयुज्य ) आर्य विवेकचन्द्र ! अमात्य पुण्येकेतो ! भद्र ज्ञानदर्पण ! साध. यामो वयं विपक्षनिधनाय । प्रतीहार ! वक्तव्यः सेनाजनो यथा न केनाप्यहमेनमध्वानमवगाहमानोऽनुसतव्यः । यतो बहुच्छलानि रिपुबलानि । यथा तथा प्रविशतामिह महानपायः। प्रतीहारः-यदादिशति देवः । ( इति निष्क्रान्तः ।) विवेकचन्द्रः-महाराज ! अनुमन्यस्व मामनुगमनाय । पुण्यकेतुः-स्वामिन् ! अनुजानीहि मां सहागन्तुम् । ज्ञानदर्पणः-मामपि देव ! सहैव नय, यतोऽस्माकमस्ति त्रयाणामपि स्वाभाविकमन्तर्धानपाटवम् । १ B & C अभि मुख "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192