Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 161
________________ ऽङ्कः ] मोहराजपराजयम् | राजा -- ज्ञानदर्पण ! अन्तस्तत्त्वममीषामवगन्तुमिच्छामि । ज्ञानदर्पणः -- किं तेन ?, श्रुतादश्रुतं यद्ः श्रेयः । तथाप्यवधार्यताम् । अन्तर्बहलकीलालजम्बालरसपिच्छलाः । विस्रमांसमयाः स्नायुव्यूताः सर्वाधमा इमे ॥ ४३ ॥ राजा - (सजुगुप्स ) तर्हि धिगमून् । ज्ञानदर्पण: - देव ! पुरस्तादालोकमात्रेणापि कातरनरकृतभयज्वरं मोहमहाराजस्य सौधमिह प्रविशतु देवः । ( सर्वे परिक्रामन्ति । ) राजा - ज्ञानदर्पण ! दर्शय तमेव तावत् त्रिलोकवीरं मोहराजम् । ज्ञानदर्पणः - इत इतो देवः । विवेकचन्द्रः राजंस्त्वमिव विशङ्कः कः किल कुर्वीत रिपुगृहागमनम् ? । अतिदुष्करं परपुरप्रवेशमिव योगिनामीशः ॥ ४४ ॥ पुण्यकेतुः —क पुनरस्मिन् सौधे भवितव्यं तेन ? | ज्ञानदर्पणः -- अस्मिन् मन्त्रमण्डपे । ( सर्वे प्रवेशं नाटयन्ति । ) ज्ञानदर्पण: - देव ! स एष सकलवीरवर्गगर्वपर्वतवज्रपातप्रतिममहिमदुर्धर्षणो मोहराजः । राजा . दिष्ट्या स एष त्रैलोक्यमल्लो मोहमहीपतिः । यो नः पूरयिता युद्धकेलिकौतूहलं चिरात् ॥ ४५ ॥ विवेकचन्द्रः -- (सोत्कम्पं ) स एष पापीयान् मोहराजः । पुण्यकेतुः - १२५ अशंसयाप्यसौ स्वामिजयं प्रति मतिर्मम | एनमालोक्य दुर्धर्षमहो ! दोलायतेऽधुना ॥ ४६ ॥ १ B & C सोत्कण्ठं. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192