Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 163
________________ मोहराजपराजयम् | ( प्रविश्य ) प्रतीहारी - ( १ ) जयदु जयदु देवो । देव ! को वि चरपुरिसो दंसणम भिलसदि । ऽङ्कः ] मोहराजः - मन्त्रिन् ! कतमेनामुना भवितव्यम् ? | पापकेतुः धृतस्तावत्संसारकः । कदागमेनामुना भवितव्यम् । मोहराजः -- (सह ) अरे ! चिराद्यमागतः । अविरतिकले ! प्रवेशय । प्रतीहारी — ( २ ) जं देवो आणवेदि । ( निष्क्रम्य कदागमेन सह प्रविश्य ) भद्द ! एसो देवो ता उवसप्प | १२७ कदागमः - (स्वगतं ) (३) विच्छाओ झीणसरो वियलियलायन्नओ मिलाणमुहो । किं दोसइ एस पहू ? अहव पयावक्खओ जाओ ॥ ५० ॥ प्रतीहारी - ( उपसृत्य ) ( ४ ) देव ! एसो पुरिसो । मोहराजः - अविरतिकले ! रागप्रभृतीनाहातुं प्रहितः कथं चिरयति प्रतीहारोऽसंयमः ?, तद्गत्वा शीघ्रं प्रेषय | ( प्रतीहारी निष्क्रान्ता | ) ( कदागमः प्रणम्योपविशति । ) मोहराजः[:---भद्र कदागम ! चिरात्प्रतिनिवृत्तोऽसि तत्कथय मूलादरिस्वरूपम् । कदागमः - (५) देव ! एदं विन्नवीयदि । वेरिनयरे संपदि धम्मकुंजरो नाम नवदंडपासिगो वहदि । तप्पडिवत्तीए दुल्हा पुरिसाणं पवेसा । ( १ ) जयतु जयतु देवः । देव ! कोऽपि चरपुरुषो दर्शनमभिलषति । (२) यद्देव आज्ञापयति । भद्र ! एष देवस्तदुपसर्प । ( ३ ) विच्छायः क्षीणस्वरो विगलितलावण्यको म्लानमुखः । किं दृश्यत एष प्रभुः ? अथवा प्रतापक्षयो जातः ॥ ( ४ ) देव ! एष पुरुषः । (५) देव ! एतद्विज्ञप्यते । वैरिनगरे संप्रति धर्मकुञ्जरो नाम नवदाण्डपाशिको वर्त्तते । १ B & C दुल्लभा. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192