________________
मोहराजपराजयम् |
( प्रविश्य )
प्रतीहारी - ( १ ) जयदु जयदु देवो । देव ! को वि चरपुरिसो दंसणम
भिलसदि ।
ऽङ्कः ]
मोहराजः - मन्त्रिन् ! कतमेनामुना भवितव्यम् ? |
पापकेतुः धृतस्तावत्संसारकः । कदागमेनामुना भवितव्यम् । मोहराजः -- (सह ) अरे ! चिराद्यमागतः । अविरतिकले ! प्रवेशय । प्रतीहारी — ( २ ) जं देवो आणवेदि । ( निष्क्रम्य कदागमेन सह प्रविश्य ) भद्द ! एसो देवो ता उवसप्प |
१२७
कदागमः - (स्वगतं )
(३) विच्छाओ झीणसरो वियलियलायन्नओ मिलाणमुहो । किं दोसइ एस पहू ? अहव पयावक्खओ जाओ ॥ ५० ॥ प्रतीहारी - ( उपसृत्य ) ( ४ ) देव ! एसो पुरिसो । मोहराजः - अविरतिकले ! रागप्रभृतीनाहातुं प्रहितः कथं चिरयति प्रतीहारोऽसंयमः ?, तद्गत्वा शीघ्रं प्रेषय |
( प्रतीहारी निष्क्रान्ता | )
( कदागमः प्रणम्योपविशति । )
मोहराजः[:---भद्र कदागम ! चिरात्प्रतिनिवृत्तोऽसि तत्कथय मूलादरिस्वरूपम् ।
कदागमः - (५) देव ! एदं विन्नवीयदि । वेरिनयरे संपदि धम्मकुंजरो नाम नवदंडपासिगो वहदि । तप्पडिवत्तीए दुल्हा पुरिसाणं पवेसा ।
( १ ) जयतु जयतु देवः । देव ! कोऽपि चरपुरुषो दर्शनमभिलषति । (२) यद्देव आज्ञापयति । भद्र ! एष देवस्तदुपसर्प ।
( ३ )
विच्छायः क्षीणस्वरो विगलितलावण्यको म्लानमुखः । किं दृश्यत एष प्रभुः ? अथवा प्रतापक्षयो जातः ॥
( ४ ) देव ! एष पुरुषः ।
(५) देव ! एतद्विज्ञप्यते । वैरिनगरे संप्रति धर्मकुञ्जरो नाम नवदाण्डपाशिको वर्त्तते ।
१ B & C दुल्लभा.
"Aho Shrutgyanam"