SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १२६ मन्त्रियशः पालविरचितं [ पञ्चमो ज्ञानदर्पणः - देव ! अमात्यपापकेतुद्वितीयो मोहराजो मन्त्रमण्डपासीनस्तिष्ठति । तन्निभृता एव तावन्मुहूर्त्तमास्महे । सर्वे - एवमस्तु । ( इति तथाकुर्वन्ति । ) ( ततः प्रविशति मोहराजः पापकेतुश्च 1 ) मोहराजः - ( आत्मानं विलोक्य ) पुंस्कीटः किल कोऽपि तिष्ठति स च श्रीमोहभूमीपतेः प्राप्तो वैरिपदं रणाय हतको निःशङ्कमुत्तिष्ठते । दोर्दण्डात्रिजगविलुण्टन कलाशौण्डास्तदेतच्चिरा हुर्बुद्धेरसमञ्जसं व्यवसितं दैवस्य रे ! पश्यत ॥ ४७ ॥ ज्ञानदर्पणः — देव ! श्रुतममुष्य विकत्थितम् ? | - राजा - स्वेच्छा हि स्वगृहेषु व्याहाराणाम् । पापकेतुः — देव ! मनुष्यकीट इति मावमंस्थास्तं त्रिजगदेकवीरं चौलुक्यनृपतिम् । पश्य पश्य अवातरडरापीठे जनस्य सुकृतोदयात् । भावितीर्थकरः कोऽपि रूपेणास्य महीपतेः ॥ ४८ ॥ मोहराजः - मन्त्रिन् ! किमेवमस्य नृपशोः प्रशंसातिरेकेण मम कर्ण - ज्वरं जागरयसि ? । अपि च वज्राग्निनेव क्षपिता यत्प्रतापेन भूभृतः । मोहः सोऽहमहो ! कष्टं शृणोत्यरिपराक्रमान् ॥ ४९ ॥ पापकेतुः — देव ! तस्यैव स्वप्रतापस्य संप्रति विद्धि परिक्षयम् । मोहराजः - ( साक्षेपं ) कथमिव ? | पापकेतुः विडम्बितः पुत्र्या सह जामाता द्यूतः । पराभूता देवस्य दासी तत्सूनुर्मित्रं च । कारागारे निहितो लेखहारकः संसारकः । प्रणश्यागतः कलिकन्दलो मिथ्यात्वराशिश्च । निष्फलप्रयासाः प्रत्यावृत्ताः कषायतीक्ष्णाः । तत्पतत्प्रतापमात्मानमारोहन्महिमानं चारातिमवधारयतु देवः । मोहराजः -- ( अपकर्णितकेन ) आः ! किमद्यापि चिरयन्ति रागकेसरिप्रभृतयः ? । - "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy