________________
ऽङ्कः ]
मोहराजपराजयम् |
राजा -- ज्ञानदर्पण ! अन्तस्तत्त्वममीषामवगन्तुमिच्छामि । ज्ञानदर्पणः -- किं तेन ?, श्रुतादश्रुतं यद्ः श्रेयः । तथाप्यवधार्यताम् । अन्तर्बहलकीलालजम्बालरसपिच्छलाः ।
विस्रमांसमयाः स्नायुव्यूताः सर्वाधमा इमे ॥ ४३ ॥
राजा - (सजुगुप्स ) तर्हि धिगमून् ।
ज्ञानदर्पण: - देव ! पुरस्तादालोकमात्रेणापि कातरनरकृतभयज्वरं मोहमहाराजस्य सौधमिह प्रविशतु देवः ।
( सर्वे परिक्रामन्ति । )
राजा - ज्ञानदर्पण ! दर्शय तमेव तावत् त्रिलोकवीरं मोहराजम् । ज्ञानदर्पणः - इत इतो देवः ।
विवेकचन्द्रः
राजंस्त्वमिव विशङ्कः कः किल कुर्वीत रिपुगृहागमनम् ? । अतिदुष्करं परपुरप्रवेशमिव योगिनामीशः ॥ ४४ ॥
पुण्यकेतुः —क पुनरस्मिन् सौधे भवितव्यं तेन ? | ज्ञानदर्पणः -- अस्मिन् मन्त्रमण्डपे ।
( सर्वे प्रवेशं नाटयन्ति । )
ज्ञानदर्पण: - देव ! स एष सकलवीरवर्गगर्वपर्वतवज्रपातप्रतिममहिमदुर्धर्षणो मोहराजः ।
राजा
.
दिष्ट्या स एष त्रैलोक्यमल्लो मोहमहीपतिः । यो नः पूरयिता युद्धकेलिकौतूहलं चिरात् ॥ ४५ ॥ विवेकचन्द्रः -- (सोत्कम्पं ) स एष पापीयान् मोहराजः ।
पुण्यकेतुः -
१२५
अशंसयाप्यसौ स्वामिजयं प्रति मतिर्मम | एनमालोक्य दुर्धर्षमहो ! दोलायतेऽधुना ॥ ४६ ॥
१ B & C सोत्कण्ठं.
"Aho Shrutgyanam"