________________
मन्त्रियशःपालविरचितं
राजा - भवत्वेवम् । को दोष: ? । ( इति सर्वे परिक्रामन्ति । ) ज्ञानदर्पणः - देव ! इदं विपक्षभूपतेः शिबिरम् ।
राजा- -आः ! कथमकालक्षेपमेव संप्राप्ताः प्रत्यर्थिस्कन्धावारम् ? । ज्ञानदर्पणः- [: -- अथ किम् ? |
राजा - ज्ञानदर्पण ! कः कस्यात्रावासः ? इति श्रोतुमिच्छामि । ज्ञानदर्पणः -- ( अङ्गुल्या निर्दिशन् ) देव ! अभी पाषण्डमण्डलानामुदजाः । इमे च द्यूतादीनामावासाः । अमी विषययोधानां निवासाः । अमी शृङ्गारादिरससेनापतीनां गृहाः । अयं कलिकन्दलस्य निलयः । असौ मिथ्यात्वराशेराश्रयः । इदं क्रोधानलस्य भवनम् । इदं गर्वपर्वतस्य मन्दिरम् । इदं दम्भगुप्त - स्य धाम । इदं लोभसागरस्य गृहम् । इदं प्रमादस्यावसथम् । इदं शोकस्य निशान्तम् । इद्मसंयमस्य धिष्ण्यम् । इदममात्यपापकेतोर्निकेतनम् । इदं रागकेसरिणः सदनम् । इदं द्वेषगजेन्द्रस्य वेश्मेति ।
१२४
राजा -- ज्ञानदर्पण ! य एते द्वन्देन स्थिताः प्रतिस्थानमालोक्यन्ते तैः कस्यावासैर्भवितव्यम् ? |
ज्ञानदर्पणः - ( ईषद्विहस्य ) देव !,
चञ्चद्वृन्तमिषेन्द्रनीलकलशैरुल्लासयन्तः श्रियं प्रेङ्खन्मौक्तिकहारकेतुललितैर्विभ्राजमाना मुहुः । दृश्यन्ते मुनिमानसेष्वपि परामुत्पादयन्तः स्पृहा
मेते कामगुरूदराः प्रतिपदं वक्षोजसंज्ञाजुषः ॥ ४० ॥ राजा - ( साकूतं ) ज्ञानदर्पण ! अपि नाम यादृशममीषामापातमात्रेण रमणीयत्वं बहिरस्ति तादृशमन्तरमपि संभाव्यते ? । ज्ञानदर्पणः - देव !,
अमीषां यादृशं बाह्यं रम्यत्वमिह वर्त्तते ।
यदि स्यादन्तराप्येवं तत्स्यात्काममयं जगत् ॥ ४१ ॥
अपि च
विलोक्यमाना एवैते हृद्याः क्षितिधरा इव । कठिनाः स्पृशमानास्तु परमोद्वेगहेतवः ॥ ४२ ॥
[ पञ्चमौ
" Aho Shrutgyanam"