________________
मोहरानपराजयम् ।
१२३ (प्रविश्य ) प्रतीहारः-देव ! पुण्यकेतुः स्वामिनो दर्शनमभिलषति । राजा-अविलम्बं प्रवेशय । प्रतीहारः-यदाज्ञापयति देवः । ( इति निष्क्रम्य पुण्यकेतुना सह प्रविशति । )
पुण्यकेतुः (स्वगतं) एष देवस्तदुपसर्वामि । (उपमृत्य) जयतु जयतु देवः । राजा-(ससंभ्रमं) इदमासनमास्यताम् ।
(पुण्यकेतुस्तथाकरोति ।) राजा-अमात्य ! कच्चिदप्रतर्कितमागमनम् ।
अमात्यः-देव ! प्रसादनानो राजपुरुषस्य हस्ते प्रहितमिदं गुरुणा श्रीहेमचन्द्रेण भवतो युद्धश्रद्धालुमनसो योगशास्त्रं नाम वज्रकवचम् । अमुना हि संवृतसर्वाङ्गो न भिद्यते रिपुप्रहरणपरम्पराभिः।
पुरुषः-इमाश्च वीतरागस्तुतिसंज्ञा विंशतिर्दिव्यगुलिकाः । आभिर्मुखकमलमलङ्कृत्य स्थिताभिः पुरुषः परेषामदृशो भवति । ( इति वज्रकवचं दिव्यगुलिकाश्चोपनयति ।)
राजा-दिष्ट्या परमनुगृहीतोऽस्मि गुरुणा । (इति वज्रकवचं परिधाय दिव्यगुलिकाश्चोपयुज्य ) आर्य विवेकचन्द्र ! अमात्य पुण्येकेतो ! भद्र ज्ञानदर्पण ! साध. यामो वयं विपक्षनिधनाय । प्रतीहार ! वक्तव्यः सेनाजनो यथा न केनाप्यहमेनमध्वानमवगाहमानोऽनुसतव्यः । यतो बहुच्छलानि रिपुबलानि । यथा तथा प्रविशतामिह महानपायः।
प्रतीहारः-यदादिशति देवः । ( इति निष्क्रान्तः ।) विवेकचन्द्रः-महाराज ! अनुमन्यस्व मामनुगमनाय । पुण्यकेतुः-स्वामिन् ! अनुजानीहि मां सहागन्तुम् ।
ज्ञानदर्पणः-मामपि देव ! सहैव नय, यतोऽस्माकमस्ति त्रयाणामपि स्वाभाविकमन्तर्धानपाटवम् ।
१ B & C अभि मुख
"Aho Shrutgyanam"