________________
मन्त्रियशः पालविरचितं
[ पश्वमो
स्वामिन् ! असमीक्षितकारिता हि महदूषणं राज्ञाम् । स नाम जयत्येव यः स्वपरयोर्बलमधिमनसं ज्ञात्वा प्रवर्तते कृत्येषु ' । ततश्चोक्तं मोहराजेन 'अमात्य ! मोहनृपतेरपीतरकातरनरपतिवत् प्रतिपक्षविभीषिकाः पराक्रमस्यान्तरायतां यान्ति ? | पापकेतुना त्ववाचि ' देव ! बलीयानसौ विपक्षक्षमापतिः । एनमुद्दिश्य सहसा यानं नायतिसुन्दरमुत्पश्यामि' । ततश्च मोहराजेन रागकेसरिद्वेषगजेन्द्रमदनदेवप्रभृतीन्मीलयितुमादिष्टः प्रतीहारः । स्वयं चालङ्कृतो मन्त्रमण्डपः । एवं च स्थिते समागतोऽहं देवं निकषेति ।
राजा - (स्वगतं ) अपि नाम मोहराजमेक एवाहं निग्रहीतुं शक्नुयाम् । विवेकचन्द्रः – राजन् ! किमिदानीमध्यवस्यति कल्याणराशि: ? । राजा - ( सोत्साहं ) आर्य ! किमन्यत् ?,
पिण्डीभूय दिवौकसां दिवि मुदा सांराविणं कुर्वतां गर्वप्राश्चितचेतसां च मदनादीनां मुहुः पश्यताम् । गत्वैकोऽपि हठादरातिशिबिरं निर्भिद्य निर्भीः क्षयं नेष्ये मोहमहीशमाहवभुवि स्वर्भूर्भुवः कण्टकम् ॥ ३७ ॥ विवेकचन्द्रः
१२२
--
किमम्भसामभेद्यं ? किमदाह्यं जातवेदसाम् ? |
अगम्यं मनसां किं वा ? किमसाध्यं भवादृशाम् ? ॥ ३८ ॥ तथापि जगद्विजयशौण्डदोर्दण्डमण्डलो मोहराजः । नैनं प्रति सांप्रतमीदृशं महासाहसं कर्तुं सांप्रतम् ।
राजा- -आर्य ! मा भैषीः । यतः-
श्रीनाभिक्षितिपात्मजप्रभृतिभिस्तीर्थाधिपैर्निर्जित
स्तैस्तैः श्रीभरतेश्वरप्रभृतिभिर्ध्वस्तो महापूरुषैः । रामाद्यैरपि पर्युपास्य सुचिरं कामं क्षयं प्रापित
·
स्तद्भो ! विद्धि मया तु मोहनृपतिः सोऽयं हतो हन्यते ॥ ३९ ॥ विवेकचन्द्रः -- (स्वगर्त ) अहो ! राजर्षेरस्य महानवष्टम्भो येन त्रैलोक्यमपि तृणवत्तुलयति । तदमुना कृतकृत्योऽस्मि । ( प्रकाशं ) महाराज ! यद्येवं तर्हि पुण्यकेतुना सह सुविमृष्टं क्रियतामिदमिति ।
१ B & C अतश्चो
" Aho Shrutgyanam"