________________
मोहराजपराजयम् ।
ज्ञानदर्पणः --- प्रतिपक्षपृतनाघनावलीविलयपवनापातं पापकेतुसंज्ञम
मात्यं विदांकरोतु स्वामी ।
ऽङ्कः ]
राजा - बुद्धिजीविनो ह्यमात्या न तैर्विक्रमललितम् । किञ्चिदपरं
निवेदय ।
ज्ञानदर्पषः -- असंयमाभिधानमरिवर्गवल्गितविपिनप्रलयपावकमवबुध्यतां प्रतीहारं राजर्षिः ।
राजा - प्रविशज्जनद्वारावरोधवैदग्ध्यमेव प्रतीहाराणाम् । न पुनर्वैरिवीरव्रजविजेयेष्वोजायितम् । तदन्यमुद्दिश ।
ज्ञानदर्पणः --- प्रत्यर्थिहृदयकुहरशल्यं शोकनामानमवगच्छ पुरोधसम् । राजा - दर्भप्रणयिपाणिपल्लवैः पुरोधोभिर्दुराराधा विजयलक्ष्मीः । तद्परमुपन्यस्य । ज्ञानदर्पणः अपरेपि हि रिपुकामिनीकुचकलशपत्राङ्कुरलिपिद्स्यवः पृथिव्यामेकवीराः सन्त्यशान्ताः शृङ्गारादिरसनामानः सेनापतयः ।
-
राजा- - न तेष्वास्थाबुद्धिं बध्नाति विजयश्रीः । अथ कीदृशस्तस्यास्मानुfeaturत्थानप्रक्रमः १ ।
१२१
ज्ञानदर्पणः श्रूयताम् । अन्येद्युरधिसभं निषण्णया कीर्त्तिमञ्जर्या प्रतापेन चोत्तेजितो मोहमहाराजः । राजा - कथमिव ? | ज्ञानदर्पणः
धन्यस्त्यौगभटः कुमारतिलकः शाङ्कम्भरीमाश्रितो
योऽसौ तस्य कुमारपालनृपतेश्चौलुक्यचूडामणेः ।
युद्धायाभिमुखोऽभवज्जयविधिस्त्वास्यं विधेः प्रेक्षते
प्रोद्दुर्जन् विफलं शरद्वन इव त्वं केवलं वल्गस्ति ॥ ३६ ॥
इदं चाकर्ण्य दूरारूढकोपाटोपेन दापिता मोहमहाराजेन सन्नाहमेरी | प्रक्रान्तं च प्रयाणकं भवदुपरि । अत्रान्तरे पापकेतु नामामात्येनागत्य प्रत्यपादि
१ A "विषये A पि रिपु ३ A 'स्ताग' : B & C 'नामात्येना
१६
"Aho Shrutgyanam"
०