SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १२० मन्त्रियशःपालविरचितं [पञ्चमी ज्ञानदर्पणः --- लोभसागरनामा सुभटावन्तसः शंसति निजगुणान् । तथा च दाक्षिण्यं शुचिता विवेकपदवी गम्भीरता सत्यता वात्सल्यं च कृपालुता सरलता शीलं क्षमा संयमः । साधुत्वं सुमतिः श्रुतं सुभगता स्युस्तावदेते गुणा नृणां यावदहं करोमि न परं नेत्रोत्सवाडम्बरम् ॥ ३५ ॥ राजा - धिग् निजपुरुषकारेण । अपरोऽपि शूरः कश्चिद्विभूषयति तदीयं स्कन्धावारम् ? । ज्ञानदर्पणः - देव ! भवन्निर्वासितानि द्यूतादिव्यसनान्युंरुपराभवसम्भवामर्षभराध्मातानि विद्यन्त एव । राजा - ( सोपहासं ) निर्वासनप्रक्रमेऽपि दृष्टसाराण्यमूनि । इतरमपि श्रोतुमिच्छामि । ज्ञानदर्पणः सकलविपक्षदक्षमखमथनशङ्करसहोदरमस्त्येव पाषण्ड मण्डलम् । राजा- -न तेन भयमुत्पाद्यते साहसिकानाम् । अर्थान्यमपि भटं ज्ञातुमिच्छामि । ज्ञानदर्पणः -- अस्त्येव वैरिवीरवरूथिनीदलनदुर्ललितविक्रमः कलिकन्दलो नाम शत्रुवधूवैधव्यदीक्षागुरुर्मिथ्यात्वराशिनामा राजगुरुश्च । राजा - (सोत्प्रासं ) पुरापि परीक्षितमेवेदं द्वन्द्वम् । पुनश्च प्रकाशय कमपि दोषमन्तम् । ज्ञानदर्पणः -- देव ! विद्धि विरोधिवधूकचग्रहप्रपञ्चितमहिम्नः स्पर्शरसरूपगन्धशब्दनाम्नः पञ्चविषययोधान् । राजा - ( सावहेलं) सुकरस्तेषामपि विजयः । अथापरं कञ्चन प्रस्तुहि । ज्ञानदर्पणः - प्रमादं नाम दाण्डपाशिकं जानातु जगजिगीषाविषैय जागरूकं देवः । ---न तेनापि किञ्चित् । अपरं कमप्याख्याहि । राजा १ C क्षणा २ C°नि गुरु° ३ A 'विजय' "Aho Shrutgyanam"
SR No.009527
Book TitleMoharajaparajayam
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherCentral Library
Publication Year1918
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy