________________
मोहराजपराजयम् ।
गर्जा जर्जर भूधराग्रशिखरस्तावन्मृगारिर्जयी
यावन्नाम विजृम्भते न शरभः पाथोदसज्जक्रमः ॥ ३१ ॥ राजा - ( सरोमाचं ) अपरश्चास्ति कश्चिद्वीरश्रीविलासलालसः ? । ज्ञानदर्पणः -- ( सविनयं ) देव ! वीरचूडामणे ! विपक्षक्षमाभृत्पक्षोत्खननदम्भोलिपाणे ! गर्वपर्वतनामा सुभटमानमर्दनमुद्भावयति निजजैत्रचरित्रैः ।
तथा च
ऽङ्कः ]
दैतेयान्वयजीवितं सुरनरव्यालेन्द्रचूडामणि
ज्योत्स्नाधौतपदाम्बुजासनतल: पौलस्त्यनामाऽभवत् । यो मां रामशराहतोऽपि न जहौ सोऽद्यापि विश्वत्रये मानीति स्मृतिकोविदैरहरहः सानन्दमुद्गीयते ॥ ३२ ॥ अपि च
मुमोच मां बाहुबलिर्न याव
द्राज्यं च युद्धं च चकार तावत् ।
तेन प्रमुक्ते मयि सोऽपि मुक्तो
वाच्यं न किश्चिन्ननु तस्य पङ्गोः ? ॥ ३३ ॥
राजा - अहो ! दुरात्मनाऽनेन साधूक्तम् । यन्मुक्तः किञ्चिन्न विधत्त इति । भद्र 1 अन्योऽपि कश्चित्तत्र वीरत्वं प्रकटयति ।
ज्ञानदर्पणः - देव ! दम्भगुप्तनामा वीरंमन्यः स्वचरितं समुल्लासयति ।
तथा च
रामं वञ्चितवान् यदेष केलयन्मार्गी तनुं राक्षसो
कापालिकमुद्रया च हृतवान् सीतामहो ! रावणः ।
११९
कृत्वा वामनतां बलिं फणिपुरे बद्धा हरिर्यन्न्यधा
तस्मिन् कारणमस्मि गूढमनसो जानीत रे मां जनाः ! ॥ ३४ ॥ राजा- नियतं स प्रभवति प्रायेण कश्मलमनसां पुंसां नास्मादृशाम् । ( पुनः सवितर्के ) ज्ञानदर्पण ! अपरश्च कश्चित्सुभटसंपदा विडम्बयत्यात्मानं न वा ? | ज्ञानदर्पणः -देव ! विडम्बयत्येवात्मानम् |
राजा- -क इव ?
१ C वहता मार्गी तनुं रक्षसा.
"Aho Shrutgyanam"