Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library
View full book text
________________
१२८ मन्त्रियशपालविरचितं
[ पञ्चमोतओ हं बंभसावगवेसं कडुय गदो निवदिगुरुणो धम्मारामे। गुरुसेवत्थमागदेण दिहो रन्ना । समाणधम्मिगु त्ति नीदो धवलहरे । ठिदो य बहुधा । परिट्टिदो पुरोहिदपदे । तत्थ ठिदस्स अदिकंतो इत्तिको कालो । मुणिमिदिवित्तमसेसं पि । संपदि संसारगवदियरे पणढेसु कलिकंदलप्पभुदिसु विडंबिदेसु जूदपमु. हेसु अहं पि नियभएण अवकंतो।
राजा___ दुरात्मनाऽमुना धर्मच्छम धृत्वाऽस्मि वञ्चितः ।
विशारदोऽपि वेश्याभिरिव श्रेणिकनन्दनः ।। ५१॥ विवेकादयः-एवमेतत् । मोहराजः-(सहर्ष ) साधु भोः कदागम ! साधु । अपि च
व्याजेन सुप्रयुक्तेन निर्मलज्ञानलोचनः।
वश्यते चतुरास्थोऽपि मर्त्यमात्रस्य का कथा ? ॥ ५२॥ कदागमः-(१) देव ! विवेयचंदेण चालुक्कनिवदी अणुसरिदो।।
मोहराजः-तथापि किम् ? । न खलु बहुभिरप्याखुभिः समुदितैर्मार्जारकण्ठे बध्यते घण्टा । अपि च
नृपः सोऽप्यस्य संपाद्राज्यभ्रंशमवाप्स्यति ।
कपोताध्यासिता येन शाखा शुष्यति शाखिनः ॥ ५३॥ पुण्यकेतुः-आर्य विवेकचन्द्र ! शृण्वन्नसि दुरात्मनो निरर्गलं वल्गितम् ।
विवेकचन्द्रः-अथ किम् ? ।
कदागमः-(२) विवेयदुहिदा परिणीदा गुज्जरनरिंदेण । मयधणमोयणजूदाइवसणनिव्वासणे पूरिदो पणो तीए । तत्प्रतिपत्त्या दुर्लभा पुरुषाणां प्रवेशाः । ततोऽहं ब्रह्मश्रावकवेषं कृत्वा गतो नृपतिगुरोधर्मारामे । गुरुसेवार्थमागतेन दृष्टो राज्ञा । समानधार्मिक इति नीतो धवलगृहे । स्थितश्च बहुधा । परिस्थितः पुरोहितपदे । तत्र स्थितस्यातिक्रान्त एतावान् कालः । ज्ञातमितिवृत्तमशेषमपि । संप्रति संसारकव्यतिकरे प्रनष्टेषु कलिकन्दलप्रभृतिषु विडम्बितेषु द्यूतप्रमुखेष्वहमपि निजभयेनापक्रान्तः ।
(१) देव ! विवेकचन्द्रेण चौलुक्यनृपतिरनुसृतः।
(२) विवेकदुहिता परिणीता गूर्जरनरेन्द्रेण । मृतधनमोचनद्यूतादिव्यसननिर्वासने पूरितः पणस्तस्याः।
"Aho Shrutgyanam"

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192