Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 167
________________ मोहराजपराजयम् । १३१ रागकेसरः: - तात ! किमिदमस्थान एव संरभसे ? । ननु मयैवेद् विद्धि सिद्धमरिवधप्रयोजनम् । यतः - गर्जगजेन्द्रभ्रमतः पयोद ऽङ्कः ] वृन्देऽपि यः सज्जयति क्रमं स्वम् । दृग्गोचरं तस्य गता मृगारेः किमक्षता याति कुरङ्गजातिः ? ॥ ५८ ॥ द्वेषगजेन्द्रः- - तात ! कथं मर्त्त्यमात्रेऽपि तत्र तपस्विनि जने महान् संभ्रमः ? । किं न विदितमत्यद्भुतमात्मस्नोर्विक्रमललितम् ? । तथा च दन्ताग्रघातैर्महतो महीभ्रान् समूलकाषं कषति क्षितौ यः । क्षुद्रद्रुमोन्मूलनमात्रमस्य न पूरयेत्केलिमपि द्विपस्य ॥ ५९ ॥ मदनदेवः- - ( धनुर्ज्या स्पृशन ) देव ! मयि स्थिते केयं शत्रुजयचिन्ता देवपादानाम् ? । किञ्चित्कुन्दप्रसवधवलं किञ्चिदुन्मेषधीरं किञ्चिल्लोलभ्रमरमधुरं किञ्चिदाकुञ्चिताक्षम् । किञ्चिद्भावालसमसरलं प्रेक्षितं कामिनीनां शस्त्रं दृष्ट्वा मम रणमुखे वैरिणो विद्रवन्ति ॥ ६० ॥ अपरे सर्वे (सर्व) १ A ताग्रम्. स्वामिन् ! विश्वत्रयजयसखेष्वेषु भृत्येषु सत्सु स्वैरं शस्त्रग्रहणविषये कोऽवकाशस्तवासौ ? | तस्मान्मुञ्च प्रहरणमयं मूर्ध्नि बद्धोऽञ्जलिस्तेऽ स्माकं मध्यात्कमपि नितमामादिश स्वेष्टसिद्ध्यै ॥ ६१ ॥ मोहराजः-~~-~- (सविलक्षं ) कुमार रागकेसरिन् ! वत्स द्वेषगजेन्द्र ! राजन् "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192