Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 168
________________ १३२ मन्त्रियशःपालविरचितं [पञ्चमोमदनदेव ! अमात्य पापकेतो ! भद्राः कलिकन्दलादयः ! मोहमहाराजः खल्बहं न शत्रुपक्षमक्षपयित्वा शस्त्रं प्रतिसंहरामि । किं वा बहुनोक्तेन ? । क्षुद्रक्ष्मापतिकोटिकीटपटलीकुद्दाकदोर्विक्रमा ध्मातस्वान्तममुं चुलुक्यनृपतिं हत्वा रणप्राङ्गणे । स्वर्गस्त्रीगणगीतविक्रमगुणः कर्तास्मि निष्कल्भषं साम्राज्यं भुवनत्रयेऽत्र नितमामेकातपत्रं पुनः ॥ ६२ ॥ विवेकचन्द्रः-दुरात्मन् ! विफलमनोरथो भूयाः । पुण्यकेतुः-प्रतिहतममङ्गलम् । ज्ञानदर्पण:-सर्वथा शासनदेवताः कुर्वन्तु रक्षा राजर्षेः । राजा-अवसरोऽयमस्योपसर्पणे । स्वयमेव शस्त्रममुना रिपुणा परिकलितमेतदतिभयदम् । अपहरणं ह्यशस्त्रे कुलवतं खलु चुलुक्यानाम् ॥ १३ ॥ (मुखाद्गुटिकां आकृष्य प्रकटीभूय च । ) अरे रे दुरात्मन् ! अनात्मज्ञ ! कश्म लाचार ! मोहाधम ! स एष गूर्जरनरेश्वरोऽहम् । यमात्तशस्त्रास्त्वमन्विव्यसि । अपि च एषोऽहं भुवनोपकारकरणव्यापारबद्धादरो हारस्फारमरीचिसोदरयशस्कामो रिपोर्निग्रहात् । सोऽहं मोहमुमं कृतान्तनगरं नेष्यामि वः पश्यतां रे रे पञ्चशरादयः ! कृतद्यास्त्रायध्वमात्मप्रभुम् ॥ ६४॥ (रागादयः पलायितुमिच्छन्ति । ) राजारे रागप्रमुखाः ! प्रकामसुभटंमन्याः समं लज्जया मुक्त्वा स्वामिनमाजिसीमनि पलायध्वे कुतः कातराः? । न क्षुद्रेषु भवादृशेषु बिभृमः संरम्भमाध्वं सुखं मुक्त्वा शस्त्रमिहैव पश्यत चिरात्संग्रामकौतूहलम् ॥६५॥ आः! कथं प्रनष्टा एव ?। १ B&C गतगीत' २ A तमः ३ B & C कामा "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192