________________
१३२ मन्त्रियशःपालविरचितं
[पञ्चमोमदनदेव ! अमात्य पापकेतो ! भद्राः कलिकन्दलादयः ! मोहमहाराजः खल्बहं न शत्रुपक्षमक्षपयित्वा शस्त्रं प्रतिसंहरामि । किं वा बहुनोक्तेन ? ।
क्षुद्रक्ष्मापतिकोटिकीटपटलीकुद्दाकदोर्विक्रमा
ध्मातस्वान्तममुं चुलुक्यनृपतिं हत्वा रणप्राङ्गणे । स्वर्गस्त्रीगणगीतविक्रमगुणः कर्तास्मि निष्कल्भषं
साम्राज्यं भुवनत्रयेऽत्र नितमामेकातपत्रं पुनः ॥ ६२ ॥ विवेकचन्द्रः-दुरात्मन् ! विफलमनोरथो भूयाः । पुण्यकेतुः-प्रतिहतममङ्गलम् । ज्ञानदर्पण:-सर्वथा शासनदेवताः कुर्वन्तु रक्षा राजर्षेः । राजा-अवसरोऽयमस्योपसर्पणे । स्वयमेव शस्त्रममुना रिपुणा परिकलितमेतदतिभयदम् ।
अपहरणं ह्यशस्त्रे कुलवतं खलु चुलुक्यानाम् ॥ १३ ॥ (मुखाद्गुटिकां आकृष्य प्रकटीभूय च । ) अरे रे दुरात्मन् ! अनात्मज्ञ ! कश्म लाचार ! मोहाधम ! स एष गूर्जरनरेश्वरोऽहम् । यमात्तशस्त्रास्त्वमन्विव्यसि । अपि च
एषोऽहं भुवनोपकारकरणव्यापारबद्धादरो
हारस्फारमरीचिसोदरयशस्कामो रिपोर्निग्रहात् । सोऽहं मोहमुमं कृतान्तनगरं नेष्यामि वः पश्यतां रे रे पञ्चशरादयः ! कृतद्यास्त्रायध्वमात्मप्रभुम् ॥ ६४॥
(रागादयः पलायितुमिच्छन्ति । ) राजारे रागप्रमुखाः ! प्रकामसुभटंमन्याः समं लज्जया
मुक्त्वा स्वामिनमाजिसीमनि पलायध्वे कुतः कातराः? । न क्षुद्रेषु भवादृशेषु बिभृमः संरम्भमाध्वं सुखं
मुक्त्वा शस्त्रमिहैव पश्यत चिरात्संग्रामकौतूहलम् ॥६५॥ आः! कथं प्रनष्टा एव ?।
१ B&C गतगीत' २ A तमः ३ B & C कामा
"Aho Shrutgyanam"