________________
S:] मोहराजपराजयम् ।
१३३ मोहराजः-(सक्रोधं ) अरे रे मनुष्यकीट! कूटवाचाट ! चिरादन्विव्यता प्राप्तोऽसि । आश्चर्यमाश्चर्यम् ,
यो हन्तुमध्यवसितस्तैस्तैर्विविधैरुपकमैः सुचिरात् ।
सोऽस्मत्प्रतापवहावुपेत्य पतितः पतङ्ग इव ॥६६॥ तदेष न भवसि ।
राजा-अरे रे दुरात्मन् ! अपसर । परिवारवन्नश्यन्न निवार्यसे । नो चेत्
अमुना निजकौक्षयकधारासलिलेन दुर्धरप्रसरः।
विध्याप्यते प्रतापानलस्तवायं ज्वलन्नितमाम् ॥ ६७ ॥ मोहराजः-अरे रे दुराचार ! वृथा वाचालतायष्ट्या प्रमुप्तं मोहमहाशीविषमात्मनिधनाय घट्टयसि । अपि च
रागद्वेषमनोभवप्रभृतयस्तिष्ठन्तु वा यान्तु वा
किं तैर्नाम ? न मे कचित्परमुखप्रेक्षी जयाडम्बरः। एकोऽप्येष तवाहमाहवतले त्रैलोक्यजिष्णुर्व्ययं
शस्त्रर्निस्त्रप ! नश्यतोऽपि निशितैर्नेष्ये व्रतप्राणितम् ॥ ६८॥ राजा-(साटोपं)
अस्त्रं शीघ्रमरे ! विमुच्य समरे त्वं याहि चेज्जीवितुं ___ वाञ्छस्यत्र तवेव नश्यति जने शस्त्रं न मे वल्गति । नो चेदेतदकाल एव भविता संग्रामसीमाङ्गणं
प्रत्यौः प्रतिपक्षपक्ष्मलद्वशां नेत्राम्बुभिः पङ्किलम् ॥ ६९ ॥ मोहराजः-अरे रे क्षुद्रक्षत्रिय !, दृष्टः पूर्वमहं त्वया न कथमप्युचैरभाग्योदया
त्तत्कि न प्रसभं श्रुतोऽप्यरिवधूवैधव्यदीक्षागुरुः । येनैवं पुरगोपुरैकसुहृदा वक्रेण वल्गन्नलं
धत्से सुसमृगारिजागरविधि स्वं हन्तुमेव स्वयम् ॥ ७० ॥ राजा-रे रे सकलत्रिलोकसुकृतपलकवलनराक्षस मोह !,
"Aho Shrutgyanam"