________________
१३४ .
मन्त्रियशःपालविरचितं
[पञ्चमोप्रहर प्रहर प्रथमं दत्तोऽत्र मया तवावकाशोऽयम् ।।
अप्रहरत्सु प्रहरणकलासु कुशला न चौलुक्याः ॥ ७१॥ मोहराजः–रे रे चौलुक्यकुलकलङ्क ! मदेकाश्रितस्वपूर्वपुरुषपरंपरापरिक्षुण्णं वन व्यतिक्रम्य मदाज्ञालोपविदग्धमुग्धपाषण्डसेवामाश्रितोऽसि । तदस्य ते दौरात्म्यस्य सहसैव करिष्ये निधनम् ।
राजा-रे रे मोह ! यदि सत्यमेव रणरङ्गवानसि, तदेहि विमर्दक्षमा भुवमवतरावः। मोहराजः-एवमस्तु ।
(उभे तथाकुरुतः।) पुण्यकेतुः
स्मृत्वा देवस्य शौण्डीय दृष्टया मोहस्य विक्रमम् ।
दोलायमानो मनसा न जाने किं भविष्यति ? ॥ ७२ ॥ विवेकचन्द्रः-पुण्यकेतो ! मा मैवम् । यतः
भयङ्करोऽयमन्येषामरिन त्वस्य भूपतेः।
प्रभुः पातयितुं वातः स्तम्भवन्न गिरीनपि ॥ ७३ ॥ ज्ञानदर्पणः-यथाऽऽत्थ । अपि च
जिनशासनप्रभावनविषयोपनिषन्निषण्णहृदयस्य । अस्य नृपस्य व्यसने सान्निध्यं को न विदधाति ? ॥ ७४॥
(नेपथ्ये) तैस्तैः शस्त्रैरमोथैः स्वजनधनवधूसगासाम्राज्यमुख्यैः
कुण्ठीभूतभर्तुः पविमयकवचं बिभ्रतो योगमङ्गे । मुक्त्वा लज्जां रणं च द्विप इव सहसा सिंहनादेन दैन्या
गीर्वाणैदृश्यमानः सदयमयमपक्रान्तवान्मोहराजः ॥ ७५ ॥ सर्वे--( आकर्ण्य सहष ) प्रियं नः प्रियं नः। (सहसोपसृत्य ) जयतु जयतु देवः।
(आकाशात्पुष्पवृष्टिः।) राजा-आर्य विवेकचन्द्र ! त्वदनुग्रहान्निस्तीर्णप्रतिज्ञोऽस्मि । तदलंकुरु स्वराजधानी जनमनोवृत्तिम् ।
"Aho Shrutgyanam"