________________
मोहराजपराजयम् । विवेकचन्द्रः-राजन् ! किं ते भूयः प्रियं करोमि ? । राजानिर्वीराधनमुज्झितं विलितं द्यूतादिलीलायितं
देवानामपि दुर्लभा प्रियतमा प्राप्ता कृपासुन्दरी। ध्वस्तो मोहरिपुः कृता जिनमयी पृथ्वी भवत्सङ्गमा
त्तीर्णः सङ्गरसागरः किमपरं न स्याद्यदाशास्महे ? ॥ ७६ ॥ तथापीदमस्तु श्रीश्वेताम्बरहेमचन्द्रवचसां पात्रे मम श्रोतसी
श्रीसर्वज्ञपदारविन्दयुगले भृङ्गायितं चेतसः। तत्पुत्र्या कृपया समं परिचयो योगस्त्वया सर्वदा .भूयान्मे भुवने यशः शशिसखं मोहान्धकारच्छिदे ।। ७७॥
( इति निष्क्रान्ताः सर्वे ।)
पञ्चमोऽङ्कः समाप्तः। इति श्रीमत्रियशःपालविरचितं मोहराजपराजयो नाम नाटक
समाप्तम् । ग्रंथागं १५००।
१ A अङ्ग राजन् ! २ B नाटकम् ॥ छ । कल्याणमस्तु ।। मंगलं महाश्रीः॥ छ ।Cनाटकम् ॥ छ । कल्याणमस्तु॥ छ । मंगलं महाश्रीः ॥ ॥ संवत् १५७९ वर्षे श्री...'महादुर्गे श्रीखरतरगच्छे...'नसूरिसंताने श्रीजिनचंद्रमरि-श्रीजिनसागरमूरि-श्रीजिनसुन्दरसूरि-श्रीजिनहर्षसरि-शिष्यश्रीजिनचन्द्रसरिशिष्येण विमललाभमुनिना श्रीमोहराजपराजयनाटकमलेखि ॥
"Aho Shrutgyanam"