Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 157
________________ मोहराजपराजयम् । ज्ञानदर्पणः --- प्रतिपक्षपृतनाघनावलीविलयपवनापातं पापकेतुसंज्ञम मात्यं विदांकरोतु स्वामी । ऽङ्कः ] राजा - बुद्धिजीविनो ह्यमात्या न तैर्विक्रमललितम् । किञ्चिदपरं निवेदय । ज्ञानदर्पषः -- असंयमाभिधानमरिवर्गवल्गितविपिनप्रलयपावकमवबुध्यतां प्रतीहारं राजर्षिः । राजा - प्रविशज्जनद्वारावरोधवैदग्ध्यमेव प्रतीहाराणाम् । न पुनर्वैरिवीरव्रजविजेयेष्वोजायितम् । तदन्यमुद्दिश । ज्ञानदर्पणः --- प्रत्यर्थिहृदयकुहरशल्यं शोकनामानमवगच्छ पुरोधसम् । राजा - दर्भप्रणयिपाणिपल्लवैः पुरोधोभिर्दुराराधा विजयलक्ष्मीः । तद्परमुपन्यस्य । ज्ञानदर्पणः अपरेपि हि रिपुकामिनीकुचकलशपत्राङ्कुरलिपिद्स्यवः पृथिव्यामेकवीराः सन्त्यशान्ताः शृङ्गारादिरसनामानः सेनापतयः । - राजा- - न तेष्वास्थाबुद्धिं बध्नाति विजयश्रीः । अथ कीदृशस्तस्यास्मानुfeaturत्थानप्रक्रमः १ । १२१ ज्ञानदर्पणः श्रूयताम् । अन्येद्युरधिसभं निषण्णया कीर्त्तिमञ्जर्या प्रतापेन चोत्तेजितो मोहमहाराजः । राजा - कथमिव ? | ज्ञानदर्पणः धन्यस्त्यौगभटः कुमारतिलकः शाङ्कम्भरीमाश्रितो योऽसौ तस्य कुमारपालनृपतेश्चौलुक्यचूडामणेः । युद्धायाभिमुखोऽभवज्जयविधिस्त्वास्यं विधेः प्रेक्षते प्रोद्दुर्जन् विफलं शरद्वन इव त्वं केवलं वल्गस्ति ॥ ३६ ॥ इदं चाकर्ण्य दूरारूढकोपाटोपेन दापिता मोहमहाराजेन सन्नाहमेरी | प्रक्रान्तं च प्रयाणकं भवदुपरि । अत्रान्तरे पापकेतु नामामात्येनागत्य प्रत्यपादि १ A "विषये A पि रिपु ३ A 'स्ताग' : B & C 'नामात्येना १६ "Aho Shrutgyanam" ०

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192