Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library
View full book text
________________
१२०
मन्त्रियशःपालविरचितं
[पञ्चमी
ज्ञानदर्पणः --- लोभसागरनामा सुभटावन्तसः शंसति निजगुणान् ।
तथा च
दाक्षिण्यं शुचिता विवेकपदवी गम्भीरता सत्यता
वात्सल्यं च कृपालुता सरलता शीलं क्षमा संयमः । साधुत्वं सुमतिः श्रुतं सुभगता स्युस्तावदेते गुणा
नृणां यावदहं करोमि न परं नेत्रोत्सवाडम्बरम् ॥ ३५ ॥ राजा - धिग् निजपुरुषकारेण । अपरोऽपि शूरः कश्चिद्विभूषयति तदीयं स्कन्धावारम् ? ।
ज्ञानदर्पणः - देव ! भवन्निर्वासितानि द्यूतादिव्यसनान्युंरुपराभवसम्भवामर्षभराध्मातानि विद्यन्त एव ।
राजा - ( सोपहासं ) निर्वासनप्रक्रमेऽपि दृष्टसाराण्यमूनि । इतरमपि श्रोतुमिच्छामि । ज्ञानदर्पणः
सकलविपक्षदक्षमखमथनशङ्करसहोदरमस्त्येव पाषण्ड
मण्डलम् ।
राजा- -न तेन भयमुत्पाद्यते साहसिकानाम् । अर्थान्यमपि भटं ज्ञातुमिच्छामि ।
ज्ञानदर्पणः -- अस्त्येव वैरिवीरवरूथिनीदलनदुर्ललितविक्रमः कलिकन्दलो नाम शत्रुवधूवैधव्यदीक्षागुरुर्मिथ्यात्वराशिनामा राजगुरुश्च ।
राजा - (सोत्प्रासं ) पुरापि परीक्षितमेवेदं द्वन्द्वम् । पुनश्च प्रकाशय कमपि दोषमन्तम् ।
ज्ञानदर्पणः -- देव ! विद्धि विरोधिवधूकचग्रहप्रपञ्चितमहिम्नः स्पर्शरसरूपगन्धशब्दनाम्नः पञ्चविषययोधान् ।
राजा - ( सावहेलं) सुकरस्तेषामपि विजयः । अथापरं कञ्चन प्रस्तुहि । ज्ञानदर्पणः - प्रमादं नाम दाण्डपाशिकं जानातु जगजिगीषाविषैय
जागरूकं देवः ।
---न तेनापि किञ्चित् । अपरं कमप्याख्याहि ।
राजा
१ C क्षणा २ C°नि गुरु° ३ A 'विजय'
"Aho Shrutgyanam"

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192