Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 154
________________ ११८ मन्त्रियशःपालविरचितं [पञ्चमो ज्ञानदर्पण:-एष विज्ञपयामि । देव ! तस्य भुवनचलनाय समुद्यतमिवात्मजयुगलं रागकेसरिद्वेषगजेन्द्रनामधेयमस्ति । तथा च मन्ये प्रेतपतिं विजित्य समरे हृत्वा तदीयं पदं क्रोधात्ताम्ररुचिं दधन्नयनयोरुड्डामराडम्बरम् । संहारे जगतां कृतव्रतमिदं दुष्प्रेक्ष्यभालस्थलं भ्रूकुट्यास्य दुरात्मनः सुतयुगं दृष्ट्वा न कः शङ्कते ? ॥ २८ ॥ राजा-(सावज्ञं ) किं तेन वराकेण दुग्धमुखेन ? । ततस्ततः । ज्ञानदर्पणः-वामपक्षेतुउत्फुल्लाम्बुजमित्रनेत्रघटया स्त्रीणां रणे दुस्सहः संग्रामाध्वरदीक्षितो मुकुटभृन्मीनध्वजो गर्जति । कीर्ति यस्य पुरारिदेवविजयव्यापारगी मुहु हस्ते पुष्पशरासनं मधुकरध्वानच्छलागायति ॥ २९॥ राजा-(सोपहासं) अनङ्गेनापि किं साध्यते पुरुषत्रतम् ? । अपरश्च कश्चित्सुभटायते। ज्ञानदर्पणः-अथ किम् ? । देव ! चौलुक्यकुलमहार्णवपारिजात ! किमुच्यते मोहराजसुभटानाम् ? । राजा-(साश्चर्य ) ज्ञानदर्पण ! विज्ञपय निश्शङ्कम् । ज्ञानदर्पणः-देव ! मोहराजमुखाग्रे वल्गति क्रोधानलनामा सुभटः। तथा चधूमस्तोमविनिर्मिताम्बुदनवश्रेणीविलुप्तांशुमान् ज्वालालीढनभस्तलः कवलिताशेषाटवीभूरुहः । साध्यो दावमहानलो जलघरासारेण सोऽहं पुनः प्लुष्यन् धर्मसुरनुमं स्वमहसा कस्यात्र साध्यो ननु ? ॥ ३०॥ राजा-(साहङ्कारं ) अहो ! एवंविधमखर्वं गर्व कुर्वाणमेनं पुरुषाधमं नि. र्वाणतां नेतुमस्मदुत्तेजिता क्षमा नाम महिलामतल्लिका वल्गति पुरस्तादियम् । ज्ञानदर्पण:-एवमेतत् । कः सन्देहः ? । तथा चदानोत्तुगतरङ्गजाततटिनीरङ्गविरेफावली गीतस्थामपराक्रमां गजघटां कामाड्डशैः पातयन् । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192