________________
मन्त्रियशःपालविरचितं
[पञ्चमोपुण्योदयपरीपाको मामकीनो विजृम्भते ।
यदस्मिन् समये जज्ञे विवेकस्य समागमः ॥ १४ ॥ विवेकचन्द्रः-सर्वत्र परिभ्रान्तोऽस्मि । परं नालोकितवान् लोकोत्तरगुणं निर्जितानेकरणं पुण्यसत्तमं पुरुषोत्तमं भवादृशम् । तत्वदर्शनसुधासागरे स्वच्छन्दं क्रीडया प्राप्नोतु सुधासारसुखं मे दृष्टिः । किञ्च--
उच्चैःकारितवीतरागभवनव्याजेन रोमाञ्चितां
निःशेषव्यसनान्धकारपटलच्छेदेन पुण्येक्षणाम् । न्यायोत्सङ्गसुखोपलालिततनुं वीक्ष्य क्षमायोषितं
युष्मद्गीतपवित्रकीर्त्तिविशदां मे स्यात्प्रमोदोदयः ॥ १५ ॥ राजा-(सहर्षे) भवत्संपर्केण सर्व साधु संवृत्तम् । तथा च.. पारावारपयो निपीय शतशः प्रच्छाद्य सूर्यातपं
नम्रीभूय निरीक्ष्य नाम वसुधां तप्तप्रजां विद्युता। निर्व्यानं जलसंपदा विहितवानानन्ददानोद्यतां
पाथोदः खलु साधु साधुचरितं किं किं न कर्तुं क्षमम् (म:)? ॥१६॥ विवेकचन्द्रः-(स्वगतं ) अहो ! गुणज्ञोऽयं पवित्रोऽयं गुणानामधिष्ठानमयं च ।
तावन्मानसकल्पनासविभवो भूयिष्ठगर्यो मया
दृष्टो दृष्टिसहस्रपङ्कजततिभ्राजिष्णुदेहद्युतिः । इन्द्रः पीतविरुद्धगन्धमदिराव्यालोलरक्ताक्षिभिः
सेव्यः स्वर्गविलासिनीभिरनिशं तस्मात्कुतः पावनः? ॥१७॥ भवतु तावत् । (प्रकाशं ) सर्वज्ञधर्मजागरूक ! परदोषमूक! कच्चित्परिज्ञातं मोहराजस्वरूपम् । कस्मिन् विषये स पापीयान् यतते ?। राजा-आर्य! तस्योपक्रमं परिज्ञातुं समादिष्टो ज्ञानदर्पणश्चिरयति ।
(नेपथ्ये) भोः प्रतीहार ! निवेदय झगिति ज्ञानदर्पणं देवाय । राजा-(श्रुत्वा सौत्सुक्यं ) प्रतीहार ! प्रवेशय ज्ञानदर्पणं सत्वरम् । १ न्दक्रीड' २ ० 'धु वृत्तं. ३ ० किल. ४ A पवित्रोऽयं पवित्रोऽयं.
"Aho Shrutgyanam"