________________
ऽङ्कः ]
मोहराजपराजयम् ।
व्यामोहक्षितिपाललोलनयना वैधव्यदानोद्यतः
श्री चौलुक्य कुमारपालनृपतिर्जीयाज्जगत्यां जयी ॥ ९ ॥ ( इति विजययात्राजयजयशब्द गर्भं विजयढक्कानिर्घोषमाकर्ण्य ससंभ्रमं ) व्योमा श्लेषविशेषितो रविहरित्रासं प्रकुर्वन्निव
क्षोणीभृच्छिखरेषु वज्रललितं व्यापारयन् हेलया । पातालोदरवासिनां बधिरयन् कर्णानयं श्रूयते
श्री चौलुक्यकुमारपालनृपतेर्निःस्वानकोलाहलः ॥ १० ॥ तदयं भूपालचूडामणिर्विजययात्रामासूत्रयन्नित एवाभिवर्त्तते । ( तत: प्रविशति स्कन्धावारस्थो महाराजो विभवतश्च परिवारः 1 ) राजा - ( सोत्साहं भुजलतामवेक्ष्य )
११३
भूभृद्भारविनम्रभूमिकलनासंपन्नगर्वोडुरं
व्यालेन्द्रं यदि याति हन्त ! शरणं व्यामोहभूमीश्वरः । तत्त्वं बाहुलते ! विधृत्य वसुधां तेनैव साई हठादुत्पाट्याब्धिगभीरघोरपयसि व्यापारयेस्तं द्विषम् ॥ ११ ॥ अपि च ( ऊर्ध्वमवलोक्य ) किं वच्मि महेन्द्रं प्रति ? । तथापि - स्वनेता यदि धास्यते स्वसविधे मोहं जगत्कण्टकं
तत्किं तस्य सहस्रसंख्यनयनैर्वीक्ष्येत यन्न द्विषम् ? | मन्ये पश्यति नैव मोहतिमिरच्यालुप्तचक्षुस्ततः
संसारार्णवकोटरे पतति भोः ! भूयोऽपि भूयोऽपि सः ॥ १२ ॥ ( पुनः सर्वतो विलोक्य सकौतुकं )
मयि करतलात्तधर्मे कः शरणं हन्त ! मोहराजस्य ? | ज्वलति जिनध्यानाग्नौ किमु कामः कार्मुकं स्पृशति ? ॥ १३ ॥ विवेकचन्द्रः - (पुरो विलोक्य सानन्दं ) दिष्ट्या वर्धसे हृदय ! । यतः समुदितो धांनांनिधिछिनत्ति खरतरैः करकुठारैर्ध्वान्ततरुगहनम् । तदवलोकनप्रणालनिर्गमेन पिब दृष्टे ! दर्शनामृतं राजर्षेः श्रीकुमारपालदेवस्य । (इत्युपसृत्य ) कल्याणिन् ! कल्याणं निःश्रेयसकारणस्य धर्मशरीरस्य ? |
राजा - ( विलोक्य) किमयमार्यो विवेकचन्द्र: ? । ( इति सप्रश्रयं ) इदमासनमास्यताम् । ( पुनः सहर्ष )
१ C धानो.
१५
"Aho Shrutgyanam"