Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 148
________________ ११२ मन्त्रियशः पालविरचितं विनार्कस्यांशुसंपर्क ध्वान्तध्वंसनचेतसः । न प्राप्नोति कलावृद्धिं शिवोपासनया शशी ॥ ५ ॥ ( पुनराकाशे साहङ्कारं ) दुर्जयो मोहमहाराजः । मा मैवम् । यतः - तावद्विद्युत्करालं निनदति नितरां शम्भुकण्ठातपश्रीचौरं पाथोदवृन्दं जलभरविभवाखर्वगर्व समन्तात् । यावद्वात्या न वाति क्षितिधरशिखरश्रेणिसंहारकारी तावन्मोहः प्रचण्डः कलयति न करे यावदेष स्वधर्मम् ॥ ६ ॥ अपि च, तदहो ! चौलुक्यचन्द्रं सुपर्णध्वजं वीक्षितुमुत्सहते मे मनः । ( आकाशे ) यद्यहो ! सुपर्णकेतुं द्रष्टुमुत्सहसे तर्हि नः सिद्धमेव समीहितम् । यतोsit मूलाश्रयो मोहमहाराजस्य । तथा च- नित्यशर्मास्पदं हित्वा मोहराजवशंवदः । विष्णुर्विडम्बयामास स्वं पाठीनादिमूर्त्तिभिः ॥ ७ ॥ असुं तु मोहप्रतिपन्धिनं वीक्षितुमिच्छामि । तत्कस्मिन्प्रदेशे तस्थिवांसं चासवसमानमवेक्ष्य स्वदृशमानन्दयामि ? | ( नेपथ्ये ) वैतालिकः श्रीसर्वज्ञपदारविन्दरजसा भ्राजिष्णुभालस्थलो लीलामुक्तमृतस्ववर्द्धितयशःसंभारधौतावनिः । ध्वस्तद्यूतपलादिपापवशतः संपन्नतुच्छक्षमाभारोत्तारणशर्मनन्दितफणी जीयान्नृपो गौर्जरः ॥ ८ ॥ द्वितीयः- उच्चण्डासिविखण्डितारिमुकुटोद्वान्तैर्मणीनां गणैनाकारि सपत्नदुःखमिव खे तारावलीनां रणे । १ B & C काली. २ B & C मोहरा' [ पश्वमो "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192