Book Title: Laghvajit Shanti Stavanam Author(s): Dharmtilak Muni Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 5
________________ -CORDCHOCOLLECRUGGER अलमहव अचिंताणंतसामत्थओ सिं, फलिहइ लह सवं वंछियं णिच्छियं मे ॥३॥-मालिनी (अलमथवा अचिन्त्यानन्तसामर्थ्यानयोः, फलिष्यति लघु सर्व वान्छितं निश्चितं मे ॥ ३॥) विव०-यद्यप्येवमस्ति तथापि (हुरिति निश्चयेन) कीर्तयिष्यामि-स्तोष्ये । कम् ?, गुणकणमपि-गुणलेशमपि । |अर्थादजितशान्त्योरिति गम्यते । यद्यपि भगवद्गुण एकोऽपि सामस्त्येन वर्णयितुं न शक्यते, तथापि गुणस्य लेशमष्यह उत्कीर्तयिष्यामि । केन ?, बहुमानोल्लासिभक्तिभरेण । बहुमानेन-आन्तरप्रीतिविशेषेणोल्लासिनी-प्रवर्धमाना चासौ भक्तिः| शिरोनमनाञ्जलिबन्धादिरूपा च, तस्या भरः-प्राग्भारस्तेन । ननु गुणलेशस्तवनेन किं सेत्स्यति ? इत्यत्राह-चिन्तामणिमिव-17 चिन्तामणिसदृशं, यथा खल्पोऽपि चिन्तामणिः स्तुतः सर्व समीहितं पूरयति, तथा भगवद्गुणलेशोऽपीत्यर्थः । अथवा अलं-सृतं । एतन्मम प्रारब्धं सेत्स्यति न वेति विचारेणेति गम्यते । कुतः ? इत्याह-फलिष्यति-सम्पत्स्यते । किम् ?, वाञ्छितं-समीहितम् । कस्य ?, मे-मम । कीदृशम् ?, सर्व-समस्तम् । आस्तां स्तवकरणमात्रं, अन्यदपि सेत्स्यतीत्यर्थः । कथम् ?, लघु-शीघ्रम् । पुनः कथम् ?, निश्चितं-निस्संशयम् । कस्मात् ?, अचिन्त्यानन्तसामर्थ्यतः। अचिन्त्यंचिन्तयितुमशक्यं, अनन्तं-अपर्यवसानं, तच्च तत्सामर्थ्य च-प्रभावश्च, तस्मात् । कयोः?, 'सिं' इत्यनयोरजितशान्त्योः । "वेदं-तदेतदोः ङस्तमूभ्यां से-सिमौ” (८-३-८१ है।) इत्यनेन इदमः आमा सह सिमादेश इति ॥३॥ भगवन्माहात्म्यात् समस्तं वाञ्छितं सेत्स्यत्येवेति समर्थयितुं भगवन्नाममात्रस्यापि प्रभावातिशयं दर्शयन् भगवन्तौ प्रति प्रणाममाह Jan Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26