Book Title: Laghvajit Shanti Stavanam
Author(s): Dharmtilak Muni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________ लच्चजि. सविवरणम् WISSES वृत्तिकृत्यशस्तिः तेषां युगप्रवरसूरिजिनेश्वराणां, शिष्यः स धर्मतिलको मुनिरादधाति / व्याख्यामिमामजितशान्तिजिनस्तवस्य, स्वार्थ परोपकृतये च कृताभिसन्धिः॥२॥- युग्मम् / विचक्षणैर्ग्रन्थसुवर्णमुद्रिका, विचित्रविच्छित्तिभृ(वृ)ता विनिर्मिता / यदीयनेत्रोत्तमरत्नयोगतः, श्रियं लभन्ते क्षितिमण्डले पराम् // 3 // तैः श्रीलक्ष्मीतिलको-पाध्यायैः परोपकृतिदक्षैः / विद्वद्भिवृत्तिरियं, समशोधितरां प्रयत्नेन // 4 // युगमम् नयनकरशिखीन्दु(१३२२), विक्रमवर्षे तपस्यसितषष्ठ्याम् / वृत्तिः समर्थिताऽस्या, मानं च सविंशतिस्त्रिशती // 5 // संवत् 1587 वर्षे / ग्रंथाग्रं // 320 // संवत् 1322 वर्षे फाल्गुनसुदि 6 कृता वृत्तिरियं वाचनाचार्यश्रीधर्मतिलकगणिभिः। समाप्तमिति / शुभं भवतु / 1 "स्यात्तपस्यः फाल्गुनिकः" इत्यमरः। 2 विक्रमपुरस्थश्रीमजिनकृपाचन्द्रसूरिसत्कचित्कोषस्थायाः प्रतिकृतेः प्रान्तवय॑यं पुष्पिकालेखः / Jain Education International For Private & Personel Use Only www.jainelibrary.org

Page Navigation
1 ... 24 25 26