Book Title: Laghvajit Shanti Stavanam
Author(s): Dharmtilak Muni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लध्वजि० सविवरणम् ॥१२॥
सर्वविघ्नहरमिदं स्तव
नीडर ! षोडश[म,
व
यः । तथा-अपहरख
नमित्यस्व पठनादौ भव्यानां प्रेरणम्
, इति-पूर्वोक्तप्रकार
क्रीडतः
तित्थंकर! सोलसम संतिजिण! वल्लह ! संतह, कुरु मंगलमर्वहरसु दुरियमखिलं पि थुणंतह ॥१७॥-द्विपदी|
(तीर्थङ्कर ! षोडशम शान्तिजिन ! वल्लभ ! सतां, कुरु मङ्गलमपहरस्व दुरितमखिलमपि स्तुवताम् ॥ १५॥) व्याख्या-हे श्रीअजितजिनेश्वर! विजयाजितशत्रुपुत्र! तथा शान्तिजिन ! अचिराविश्वसेनतनय ! पञ्चमचक्रीश्वर !, तीर्थकर ! षोडश म], वल्लभ!-अभीष्ट!। केषाम् ?, सतां-साधूनाम् । एतानि सर्वाणि सम्बोधनपदानि । एवंविधस्त्वं भगवन् ! कुरु-विधेहि । किम् ?, मङ्गलं-श्रेयः। तथा-अपहरख-अपनय । किं तत् ?, दुरितं-दुष्कृतम् । किंविशिष्टम् ?, अखिलमपि-समस्तमपि । केषाम् ?, स्तुवतां-स्तवनं पठताम् । कथम् ?, इति-पूर्वोक्तप्रकारेण । अत्र 'जिनवल्लभेति अनेन कविना भड्यन्तरेण खनाम सूचितं वर्तते । पुरा हि श्रीजितशत्रुमहाराजविजयादेव्यौ सारिद्यूतेन क्रीडतः। देवी च सर्वदा हारयति । यदा च भगवान् श्रीअजितस्वामी मूर्तो विजय इव वैशाखशुक्लत्रयोदश्यां निशीथसमये श्रीविजयविमानत: श्रीविजयादेव्याः कुक्षाववातरत् ततः प्रभृत्येव विजयादेवी कदापि न हारयति स्म । ततो मातापितृभ्यां प्रभोरजितेति नाम कृतम् । तथा श्रीविश्वसेनमहाराजमण्डले सम्यक्प्रयुक्तविधिमण्डल इव योगिमण्डलैः विफलितमहामात्रिकतान्त्रिकाधु
१ मुद्रितप्रतिक्रमणपुस्तिकासु “संथुअ" (संस्तुत) इति । २ “मम” इति च पाठान्तरम् । ३ कृतेऽप्यायासे नाज्ञाशिष लक्षणं कुत्राप्येतस्या द्विपद्याः, केवलं वृत्तिद्भिरुल्लिखितत्वाद्विहितोऽयं नाम निर्देशः । किञ्च-वृत्तस्यास्य सादृश्यमस्ति 'जय तिहुअणे'त्यादिस्तववृत्तेन, यद्यपि तस्य 'रोलावृत्त'मित्युल्लिखितमहम्मदावादनिवासिना रामचंद्रदीनानाथशास्त्रिणा 'जय तिहुअण' स्तवस्य गौर्जरानुवादे, परं न साघटीति तल्लक्षणं तत्र, "एकादशमधिविरति" रिति लक्षणोक्तित्वा जय तिहुअण' स्तवेऽत्रापि च चतुर्दशमधिविरतिस्वादिति ।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26