Book Title: Laghvajit Shanti Stavanam
Author(s): Dharmtilak Muni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पढह सुणह सज्झाएह झाएह चित्ते, कुणह मुणह विग्धं जेण घाएह सिग्धं ॥१६॥- मालिनी
(पठत शृणुत स्वाध्यायत ध्यायत चित्ते, कुरुत जानीत विघ्नं येन घातयत शीघ्रम् ॥ १६ ॥) व्याख्या-भो भव्याः! यूयं इति-उत्तप्रकारेणेदं जिनवरद्विकस्तोत्रं । जिनवरयोः-अजितशान्त्योर्द्विकं-युग्म, तस्य स्तोत्रं-स्तवनम् । कीदृशम् ?, पवित्रं-प्रधानम् । किम् ?, पठत-अधीध्वं पट्टिकादौ लिखित्वा, तथा शृणुत-आकर्णयत ॥ सूत्रतोऽर्थतश्च कथ्यमानं, स्वाध्यायत-गुणयत विकथात्यागेन, ध्यायत-स्मरत पदपदार्थादिचिन्तनेन, चित्ते-मनसि
कुरुत-विधत्त आर्तरौद्रपरिहारेण, कदाचिदपि चित्तान्मा मुञ्चतेत्यर्थः । 'मुणहे ति "ज्ञो जाणमुणौ" [८-४-७ है.] इत्यनेन ज्ञाधातोर्मुणादेशः, तेन सूत्रार्थतो जानीतेत्यर्थः । पठनादेः प्रस्तावविशेषमाह-पक्षे भवं पाक्षिक पर्व, तस्मिन् । |तथा चतुषु मासेषु भवं चातुर्मासं पर्व, तस्मिन् , तथा वत्सरे-पर्युषणापर्वणि । वा शब्दः समुच्चये । कीदृशे पाक्षिके चातुर्मासे संवत्सरे वा पर्वणि ?, गुरुदुःखत्रासे । गुरुदुःखानि-भवान्तरोपचितदुष्कर्मप्रभवाण्यसातानि, तानि त्रासयति-भापयते, परमनिर्जराहेतुत्वेन नाशयतीति भावः, गुरुदुःखत्रासं, तस्मिन् । एतत्पठनादौ हेतुमाह-येन-स्तोत्रपठनादिना कारणेन 31 घातयत-विनाशयत । किं तत् कर्मतापन्नम् ?, विघ्नं-धर्मान्तरायम् । कथम् ?, शीघं-झटिति, पठनानन्तरमेवेत्यर्थः ॥१६॥ अथ स्तोत्रं समर्थयन् स्तोतॄन् प्रति भगवन्तौ श्रेयस्करणविघ्नापहारौ प्रार्थयतिइय विजयाजियसत्तुपुत्त ! सिरिअजियजिणेसर !, तह अइराविससेणतणय ! पंचमचक्कीसर!। (इति विजयाजितशत्रुपुत्र ! श्रीअजितजिनेश्वर !, तथा अचिराविश्वसेनतनय ! पञ्चमचक्रीश्वर!।)
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26