Page #1
--------------------------------------------------------------------------
________________
Jain Education
श्रेष्ठि- देवचन्द लालभाई - जैन- पुस्तकोद्धारे - स्तम्भनपार्श्वप्रतिमाप्रकटननवाङ्गवृत्तिकरणप्रवणश्रीमद्भयदेवसूरिपट्टप्रभाकरसुविहितचक्रचूडामणिश्रीमज्जिनवल्लभसूरिवरप्रणीतं, श्रीमज्जिनपतिसूरिपट्टप्रकाशनदिनकर श्रीमज्जिनेश्वरसूरिविनेयवरश्रीधर्म तिलकमुनिविरचित विवरणसमन उल्लासिकमेति प्रसिद्धाख्यं
लध्वजितशान्तिस्तवनम् ।
( सच्छायम् )
****
अजितशान्तिजिनौ भुवनत्रये, विजयशान्तिविधौ प्रथितौजसौ ।
समभिनम्य तयोः स्तवसङ्गतं, विवरणं विदधे किमपि स्फुटम् ॥ १ ॥ द्रुत ० *
इह हि किलैकदा वर्णनातिक्रान्तानुपमभागधेयाः सुगृहीतनामधेयाः सकललोकसं श्लाध्यमहार्घ्यविमल गुणमणिश्रेणयः *"दुतविलम्बितमाह नभौ भरौ ॥ ५० ॥ "
पादे यतिरिति वृत्तरत्नाकरः ।
नगणः - भगणः- भगणः- रगणः ।।। SII s 1s
511
}
jainelibrary.org
Page #2
--------------------------------------------------------------------------
________________
लघ्वजि० संविग्नमुनिजनवातचूडामणयः स्वप्रज्ञाऽतिशयविशेषविनिर्जितामरसूरयः श्रीजिनवल्लभसूरयः श्रीअजितशान्त्योः स्तवनं | मङ्गलाभिसविवरणम् चतुर्विधश्रीश्रमणसंघश्रेयस्करं सप्तदशवृत्तप्रमाणं विशेषतः पाक्षिकादिपर्वणि पाठ्यं चिकीर्षवः प्रथममुत्प्रेक्षालङ्कारसारं धेयादिदाशार्दूलच्छन्दसा वृत्तेन भगवत्स्तुतिप्रतिज्ञां चक्रिरे
कथनपूर्वक उल्लासिकमनक्खनिग्गयपहादंडच्छलेणंऽगिणं, वंदारूण दिसंत इव पयर्ड निवाणमग्गावलिं ।
भगवतोः ( उल्लासिक्रमनखनिर्गतप्रभादण्डच्छलेनाङ्गिनां, वन्दारूणां दिशन्ताविव प्रकटं निर्वाणमार्गावलिम् । )
स्तुतिप्रकुंदिंदुजलदंतकंतिमिसओ नीहंतनाणंऽकुरु-केरे दोवि दुइजसोलसजिणे थोसामि खेमंकरे ॥१॥-शार्दूलots
तिज्ञा (कुन्देन्दूज्वलदन्तकान्तिमिषतो निर्यज्ज्ञानाकुरो-त्करौ द्वावपि द्वितीयषोडशजिनौ स्तोष्यामि क्षेमङ्करौ ॥ १॥) विव०-स्तोष्यामि-कीर्तयिष्यामि । अहमित्यध्याहारः। कौ कर्मतापन्नौ ?, द्वावपि । कौ द्वौ ?, द्वितीयषोडशजिनौ । अजितशान्तिनामानौ । कीदृशौ ?, क्षेमङ्करौ । क्षेम-श्रेयः कुरुतः क्षेमङ्करौ, तौ। पुनः किंविशिष्टौ ?, दिशन्ताविव-प्रतिपा-18 |दयन्ताविव । 'इच'शब्द उत्प्रेक्षायाम् । काम् ?, निर्वाणमार्गावलिं-मोक्षपथश्रेणिम् । केषाम् ?, अङ्गिना-प्राणिनाम् । किं- विधानाम् ?, वन्दारूणां-नमस्कृतिकृताम् । कथम् ?, प्रकटं-[स्फुटं]स्पष्टम् । केन ?, उल्लासिक्रमनखनिर्गतप्रभादण्डच्छलेन । * "कल्पना काचिदौचित्या-द्यत्रार्थस्य सतोऽन्यथा । द्योतितेवादिभिःशब्दै-रुत्प्रेक्षा सा स्मृता यथा ॥९०॥” इति वाग्भटालकारे।
॥५१॥ + "सूर्याश्वैर्मसजस्ततः सगुरवः शार्दूलविक्रीडितम् ॥९९॥"(मगणः-सगण:-जगणः-सगणः-तगण:-तगण:-गुरुः द्वादशभिः सप्तभिश्च यतिरिति वृत्तरत्नाकर
sss 115 151 115 SS SS SS
For Private & Personel Use Only
Page #3
--------------------------------------------------------------------------
________________
क्रमाणां - अंहीणां नखा-नखराः, तेभ्यो निर्गता याः प्रभाः कान्तयः, तेषां दण्डाः- सम्मिलितरुचिप्रपञ्चाः। उल्लासिन-ऊर्ध्व| मुखं गच्छन्तो ये क्रमनखनिर्गतप्रभादण्डाः, तेषां छलं - व्याजः, तेन । यः किल यं मार्ग दर्शयति स तदभिमुखं दण्डादिकं व्यापार्य दर्शयति, ततो भगवतोरपि ऊर्ध्वोल्लसत्पदनखकिरणदण्डौ प्रणमतः प्रति मुक्तिमार्ग ऊर्ध्वं वर्तमानं दर्शयन्ताविवो - त्प्रेक्ष्यते । तथा पुनः कीदृशौ ?, निर्यज्ज्ञानाङ्कुरोत्करौ, ज्ञानस्याङ्कुरा ज्ञानाङ्कुराः, तेषां उत्करः- समूहः, निर्यन-निर्गच्छन् ज्ञानाङ्करोत्करौ यकाभ्यां तौ निर्यज्ज्ञानाङ्करोत्करौ । कस्मात् ?, कुन्देन्दुज्वलदन्तकान्तिमिषतः । कुन्दं - माध्यं पुष्पं, इन्दुश्चन्द्रः, तयोरिवोज्ज्वलाः- शुभ्रा ये दन्ता-रदास्तेषां कान्तिः - प्रभा, तस्या मिषं - व्याजः, तस्मात् । एतेन भगवतोर्ज्ञानक्षेत्रत्वमुक्तं स्यात् ॥ १ ॥
भगवत्स्तुतिप्रतिज्ञां [प्रतिज्ञाय ] स्वस्य रामसिक्यविलसितं दर्शयितुं भगवत्स्तुताव सामर्थ्य माह
चरम जलहिनीरं जो मिणिज्जंजलीहिं, खयसमयसमीरं जो जिणिजा गईए । ( चरमजलधिनीरं यो मिनुयादञ्जलिभिः, क्षयसमयसमीरं यो जयेद्गत्या । )
सयल नहयलं वा लंघए जो पएहिं, अजियमहव संतिं सो समत्थो धुणेउं ॥ २ ॥ - मालिनी ( सकलनभस्तलं वा लङ्घयेद्यः पदैः, अजितमथवा शान्ति स समर्थः स्तोतुम् ॥ २ ॥ )
१ “माघे भवं माध्यम्” इत्यमरवृत्तौ । २ "ननमयययुतेयं मालिनी भोगिलोकैः ॥८४॥ यतिरिति वृत्तरत्नाकरे तृतीयेऽध्याये ।
नगणः - नगणः - मगणः - यगणः- यगणः 111 ||| SSS ISS ISS
अष्टभिस्सप्तभिश्च
Page #4
--------------------------------------------------------------------------
________________
लध्वजि० सविवरणम्
CRICANCRECAREER
| अनेकोपमया सम्पूर्णस्तुतेरकरणीयत्वम्
विव०-'स समर्थः' स शक्तः । किं कर्तुम् ?, स्तोतुं-उत्कीर्तयितुम् । कम् ?, अजितं-द्वितीयतीर्थकरम् । अथवेति समुच्चये । शान्ति च-पोडशं जिनम् । यः किम् ?, यो मिनुयात्-एतावदेतदिति प्रमाणं कुर्यात् । किम् ?, चरमजलधि | नीरं-स्वयम्भूरमणसमुद्रजलम् । कैः ?, अञ्जलिभिः-प्रसूतिभिः, इतरसरोवरादिजलमप्यञ्जलिभिर्मातुं न शक्यते, किं पुनः समुद्रस्य ?, तत्रापि स्वयम्भूरमणसमुद्रस्य ?, परं तदपि यो मिनुयात् । तथा यो जयेत्-पराभवेत् । कम् ?, क्षयसमयसमीरं-प्रलयकालवातम् । कया?, गत्या-पादचङ्क्रमणेन । अन्योऽपि वातो गत्या जेतुं न शक्यते, क पुनः क्षयसमयसमीरः?, परं तमपि यः स्वगत्या पृष्टौ पातयित्वा पुरो याति । तथा [वा-अथवा यो लङ्घयेत्-आ[अतिक्रमितुं समर्थः स्यात् । किम् ?, सकलनभस्तलं-सर्वाकाशमण्डलम्, न पुनरेकदेशतः। [काभ्यां ?, पादाभ्यां] । समुद्रादिकमपि लङ्घयितुं न शक्यते, आस्तां नभस्तलम् , तत्रापि सकलम् , परं तदपि यो लङ्घयेत् , स समर्थः। स्तोतुम्' इति पदं त्रिष्वपि यच्छब्देषु प्रत्येकं योजनीयम् । अयमभिप्रायः-चरमजलधिनीरमानं क्षयसमयसमीरजयनं सकलनभस्तललङ्घनं च पटुरपि न कोऽपि कर्तुं समर्थः, एवं निरुपममहिमासमुद्रयोर्भगवतोगुणोत्कीर्तनमपीत्यर्थः ॥२॥ । यदि नाम एवं उक्तयुक्त्या भगवद्गुणोत्कीर्तने कस्यापि प्रागल्भ्यं नावलोक्यते, तर्हि किमिति तव तावत्तत्रोद्यमः? कथं च तत्प्रमाणपदवीमारोक्ष्यतीत्याशङ्कयाह
तहवि हु बहुमाणुल्लासिभत्तिभरेणं, गुणकणमवि कित्तेहामि चिंतामणिव । ( तथापि खलु बहुमानोल्लासिभक्तिभरेण, गुणकणमपि कीर्तयिष्यामि चिन्तामणिमिव ।)
॥५२॥
For Private & Personel Use Only
Page #5
--------------------------------------------------------------------------
________________
-CORDCHOCOLLECRUGGER
अलमहव अचिंताणंतसामत्थओ सिं, फलिहइ लह सवं वंछियं णिच्छियं मे ॥३॥-मालिनी
(अलमथवा अचिन्त्यानन्तसामर्थ्यानयोः, फलिष्यति लघु सर्व वान्छितं निश्चितं मे ॥ ३॥) विव०-यद्यप्येवमस्ति तथापि (हुरिति निश्चयेन) कीर्तयिष्यामि-स्तोष्ये । कम् ?, गुणकणमपि-गुणलेशमपि । |अर्थादजितशान्त्योरिति गम्यते । यद्यपि भगवद्गुण एकोऽपि सामस्त्येन वर्णयितुं न शक्यते, तथापि गुणस्य लेशमष्यह
उत्कीर्तयिष्यामि । केन ?, बहुमानोल्लासिभक्तिभरेण । बहुमानेन-आन्तरप्रीतिविशेषेणोल्लासिनी-प्रवर्धमाना चासौ भक्तिः| शिरोनमनाञ्जलिबन्धादिरूपा च, तस्या भरः-प्राग्भारस्तेन । ननु गुणलेशस्तवनेन किं सेत्स्यति ? इत्यत्राह-चिन्तामणिमिव-17 चिन्तामणिसदृशं, यथा खल्पोऽपि चिन्तामणिः स्तुतः सर्व समीहितं पूरयति, तथा भगवद्गुणलेशोऽपीत्यर्थः । अथवा अलं-सृतं । एतन्मम प्रारब्धं सेत्स्यति न वेति विचारेणेति गम्यते । कुतः ? इत्याह-फलिष्यति-सम्पत्स्यते । किम् ?, वाञ्छितं-समीहितम् । कस्य ?, मे-मम । कीदृशम् ?, सर्व-समस्तम् । आस्तां स्तवकरणमात्रं, अन्यदपि सेत्स्यतीत्यर्थः । कथम् ?, लघु-शीघ्रम् । पुनः कथम् ?, निश्चितं-निस्संशयम् । कस्मात् ?, अचिन्त्यानन्तसामर्थ्यतः। अचिन्त्यंचिन्तयितुमशक्यं, अनन्तं-अपर्यवसानं, तच्च तत्सामर्थ्य च-प्रभावश्च, तस्मात् । कयोः?, 'सिं' इत्यनयोरजितशान्त्योः । "वेदं-तदेतदोः ङस्तमूभ्यां से-सिमौ” (८-३-८१ है।) इत्यनेन इदमः आमा सह सिमादेश इति ॥३॥
भगवन्माहात्म्यात् समस्तं वाञ्छितं सेत्स्यत्येवेति समर्थयितुं भगवन्नाममात्रस्यापि प्रभावातिशयं दर्शयन् भगवन्तौ प्रति प्रणाममाह
Jan Education International
Page #6
--------------------------------------------------------------------------
________________
लघ्वजि० सविवरणम्
॥ ३ ॥
सयलजयहियाणं नाममित्तेण जाणं, विहडह लहु दुट्ठाणिट्ठदोघघ (थ) म् ।
( सकलजगद्धितयोर्नाममात्रेण ययोः विघटते लघु दुष्टानिष्ट दोघट्टघ (थ) दृ: ।)
नमिर सुरकिरीडुग्धिट्ठपायारविंदे, सययमजियसंती ते जिणिदेऽभिवंदे ॥ ४ ॥ - मालिनी ( नम्रसुरकिरीटोद्धृष्टपादारविन्दौ, सततमजितशान्ती तौ जिनेन्द्रावभिवन्दे || ४ || )
विव०–[ सततं-निरन्तरं ] अभिवन्दे - सर्वादरेण स्तुवे । कौ १, तौ - जिनेन्द्रौ । किंनामानौ ?, अजितशान्ती ! किंविधौ ?, नम्रसुरकिरीटोद्धृष्टपादारविन्दौ । नम्रा-नमनशीला ये सुरा वैमानिकादयस्तेषां किरीटानि - मुकुटानि, तैरुदृष्टे| उत्तेजिते पादारविन्दे - चरणकमले ययोस्तौ । तावभिवन्दे, ययोः सकलजगद्धितयोर्नाममात्रेण, गृहीतेनेति शेषः । किं ?, विघटते - विद्रवति । कः ?, दुष्टानिष्टदोघट्टघ (थ) ट्टः । दुष्टानि - दुःखजनकानि च तानि अनिष्टानि च प्रियविप्रयोगादीनि तान्येव दोघट्टा - हस्तिनस्तेषां घ (थ) दृ: - समूहः । अत्र प्राकृतत्वात् नपुंसकत्वम् । कथम् ?, लघु- शीघ्रं । सर्वत्र प्राकृतत्वात् द्विवचनेऽपि बहुवचनम् । एवमग्रेतनेष्वपि वृत्तेषु ज्ञेयम् ॥ ४ ॥
सम्प्रत्यनयोरेव भगवतोः पदभक्तिप्रभावं दर्शयति
पसरइ वरकित्ती बहुए देहदित्ती, विलसह भुवि मित्ती जायए सुप्पवित्ती । ( प्रसरति वरकीर्तिः वर्धते देहदीप्तिः, विलसति भुवि मैत्री जायते सुप्रवृत्ति: । )
प्रभोः प्रभावाति
शयम्
॥ ५३ ॥
Page #7
--------------------------------------------------------------------------
________________
फुरइ परमतित्ती होइ संसारछित्ती, जिणजयपयभत्ती ही अचिंतोरुसत्ती ॥ ५ ॥ - मालिनी ( स्फुरति परमतृप्तिः भवति संसारछित्तिः, जिनयुगपद्भक्तिर्ही अचिन्त्योरुशक्तिः ॥ ५ ॥ )
विव० - वर्तते । काऽसौ ?, जिनयुगपदभक्तिः । जिनयोः - अजितशान्त्योः, युग-युग्मं, तस्य पदाः- चरणास्तेषु | भक्ति:- आन्तरा प्रीतिः प्रवर्तितशिरोनमनादिरूपा । कीदृशी ?, अचिन्त्योरुशक्तिः । अचिन्त्या - चिन्तयितुमशक्या उर्वी| गरिष्ठा शक्तिः - सामथ्यं प्रभावो यस्याः सा तथोक्ता । 'ही' इति शब्द आश्चर्ये । तथा च माघः - "ही विचित्रो विपाकः” | इति । कथं विज्ञायते ? इत्यत्राह - प्रसरति - विस्तारं गच्छति वरकीर्तिः- प्रधानं यशः, जिनपदयुगभक्तित इति गम्यम् । एवमग्रेऽपि । तथा वर्धते देहदीप्तिः- उज्जृम्भते शरीरकान्तिः । तथा विलसति भुवि मैत्री - विस्फूर्जति क्षितौ प्रीतिः । तथा जायते - सम्पद्यते शोभना सफलत्वेन प्रवृत्तिः - व्यापारः सुप्रवृत्तिः । तथा स्फुरति परमतृप्तिः - उल्लसति परमसन्तोषः । भवति संसारछित्तिः- सम्पद्यते भवविच्छेद इति ॥ ५ ॥
अथ देवाङ्गनानां भगवद्विषये नृत्यपूजाप्रतिपादनद्वारेण स्तुतिमाह -
ललियपयपयारं भूरिदिवंगहारं, फुडघणरसभावोदारसिंगारसारं ।
(ललितपदप्रचारं भूरिदिव्याङ्गहारं, स्फुटघनरसभावोदारशृङ्गारसारम् । ) अणिमिसरमणी जहंसणच्छेय भीया, इव पणमणमंदा कासि नोवहारं ॥ ६ ॥ - मालिनी ( अनिमिषरमण्यो यद्दर्शनच्छेदभीताः, इव प्रणमनमन्दा अकार्षुर्नृत्योपहारम् ॥ ६ ॥ )
Page #8
--------------------------------------------------------------------------
________________
लध्वजि० सविवरणम्
सब
देवाङ्गनानृत्योपहारवर्णनम्
॥४॥
विव०-अत्रातनवृत्तस्थं 'थुणह अजियसंती ते' इति तच्छब्दप्रधानं वाक्यं सम्बध्यते । ततश्च तावजितशान्ती स्तुत-वर्णयत । 'जहंसणच्छेयभीया इव पणमणमंदा कासि नहोवहार मिति सम्बन्धः । अकार्षुः-विदधुः । काः!, अनिमिषरमण्यः। प्राकृतत्वादत्र विभक्तिलोपः। अनिमिषाः-देवाः, तेषां रमण्या-स्त्रियः। कम् ?, नृत्योपहारम् । नृत्येननर्तनेन उपहारः-पूजा, तम् । कीदृश्यः ?, प्रणमनमन्दाः। प्रणमने-न्यङ्मस्तककरणे मन्दाः-अलसाः। किल नर्तक्यः प्रायः सम्मुखमवलोकयन्त्य एव नृत्यं कुर्वन्तीति स्वभावः । ततः कविनोत्प्रेक्ष्यते-न स्वभावतो, यद्दर्शनच्छेदभीता इव । ययोरजितशान्त्योदर्शनं-अवलोकनं भवशतेष्वपि दुष्प्रापं, तस्य छेदः-अन्तरायस्ततो भीता इव-चकिता इव, भूयोऽपि दुर्लभं भगवदर्शनं इति तदन्तरायं प्रणामकालभाविनमप्यसहन्त्य इत्यर्थः। कीदृशं नृत्योपहारम् ?, ललितपदप्रचारं । ललिताः-रमणीयाः पदप्रचाराः-स्वचरणन्यासा यत्र, तम् । पुनः किंविधम् ?, भूरिदिव्याङ्गहारं । भूरयः,-प्रभूता दिव्याः-परमोत्कर्षशालिनो अङ्गहाराः-अङ्गविक्षेपा यत्र, तम् । भूयोऽपि कीदृक् ?, स्फुटघनरसभावोदारशृङ्गारसारम् । स्फुटः-व्यक्तः, धनः-सान्द्रो योऽसौ रसः-शृङ्गारो भावो-रतिस्ताभ्यां उदारो योऽसौ शृङ्गारो-विभूषाप्रकारस्तेन सारंप्रधानम् । भावशृङ्गाररसाभ्यां बन्धुरमित्यर्थः ॥ ६॥ सम्प्रति भगवतोर्वर्णवर्णनापूर्वकं स्तुतिमाह
थुणह अजियसंती ते कयासेससंती, कणयरयपिसंगा छज्जए जाण मुत्ती।
(स्तुत अजितशान्ती तौ कृताशेषशान्ती, कनकरजःपिशङ्गा राजते ययोर्मूर्तिः।)
x
॥ ५४॥
For Private & Personel Use Only
Page #9
--------------------------------------------------------------------------
________________
RECAUSE
सरभसपरिरंभारंभिनिवाणलच्छी-धणथणघुसिणंकुप्पंकपिंगीकयच्च ॥७॥-मालिनी
( सरभसपरिरम्भारम्भिनिर्वाणलक्ष्मी-घनस्तनघुमृणाङ्कोत्पङ्कपिङ्गीकृता इव ॥ ७ ॥) व्याख्या-स्तुत-नुत भो भव्याः!, कौ कर्मतापन्नौ ?, तौ अजितशान्ती । कीदृशौ ?, कृताशेषशान्ती । कृता-विहिता अशेषा-सम्पूर्णा जगत्रये शान्तिः-शिवं यकाभ्यां तौ । ययोः किं ?, 'छज्जए' इति राजते "राजेरग्घ-छज्ज-सह-रीर-रेहा" [८-४-१०० है. ] इति 'राजि' धातोश्छजादेशः। काऽसौ ?, मूर्तिः-तनुः । कीदृशी ?, कनकरजःपिशङ्गा । कनकस्य रजः-चूर्ण, तद्वत् पिशङ्गा-पीता, भगवतोः सुवर्णवर्णा मूर्तिरेषः स्वभावः, परं कविनोत्प्रेक्ष्यते-न स्वभावतः, किं तर्हि ?, सरभसपरिरम्भारम्भिनिर्वाणलक्ष्मीघनस्तनघुसणाङ्कोत्पङ्कपिङ्गीकृतेव । सरभसं-सौत्सुक्यं यथा भवति, एवं परिरम्भ-18 आलिङ्गन, तं आरभते-करोतीत्येवंशीला सरभसपरिरम्भारम्भिणी, सा चासौ निर्वाणलक्ष्मीश्च-मुक्तिनायिका च, तस्या घनौ-पीनौ च तौ स्तनौ च, तयोर्योऽसौ घुसृणाङ्कः-कुङ्कमविभूषा, तस्योत्कृष्टः पङ्को-द्रवः, तेन पिङ्गीकृतेव-पिञ्जरितेव । किल नायिकाः सकामाः शृङ्गारिण्यो नवयौवने निजस्तनकलशयोः कुङ्कमेन मण्डनं कुर्वन्ति । ततो यदा गाढानुरागेण 3 प्रियतमस्यालिङ्गनं कुर्वते तदा तत् स्तनमण्डनेन तस्याङ्गं पिञ्जरितं भवति, भगवतोरपि मुक्तेर्वधूत्वेन निरूपिताया आलिङ्गनं सम्भाव्यैवमुत्प्रेक्ष्यतेति भावः ॥७॥
सम्प्रति प्रमाणसुप्रतिष्ठस्याद्वादोपदेशकत्वद्वारेण भगवतोः स्तुतिमाह
R ESCREENA
वैरा०१०
Jain Education
DIL
For Private Personel Use Only
Mr.jainelibrary.org
Page #10
--------------------------------------------------------------------------
________________
ब
लध्वजि. सविवरणम्
%- KISS XXX U
बहविहनयभंगं वत्थु णिचं अणिचं, सदसदणभिलप्पालप्पमेगं अणेगं ।
स्थाद्वादोप(बहुविधनयभङ्गं वस्तु नित्यमनित्यं, सदसदनभिलाप्याभिलाप्यमेकमनेकम् । )
देशकत्वं इय कुनयविरुद्धं सुप्पसिद्धं च जेसिं, वयणमवयणिज्जं ते जिणे संभरामि ॥८॥ -मालिनी प्रभोस्तत्र (एवं कुनयविरुद्धं सुप्रसिद्धं च ययो-वचनमवचनीयं तौ जिनौ संस्मरामि ॥ ८॥)
नयवक्तव्याख्या-तौ-अजितशान्ती संस्मरामि-ध्यायामि। कीदृशौ?, जिनौ-रागादिदोषजयिनी, आप्ताविति यावत् । आप्तिर्हि व्यता दोषक्षयमुच्यते, सा विद्यते ययोस्तावाप्तौ । आप्तत्वं च प्रमाणोपपन्नार्थवादित्वेनानुमीयते इति भगवतोर्वचनविशुद्धिमाह
जेसिं' ययोर्वचनं स्याद्वादसन्नद्धमर्थतो द्वादशाङ्गरूपं "अत्थं भासइ अरिहा, सुत्तं गुंथंति गणहरा निउणं" इति वचनादस्तीति गम्यते । कीदृशम् ?, 'इय'-एवंप्रकारवस्तुप्रतिपादकम् । तमेव वस्तुप्रकारमाह-वस्तु वर्तते । किं-रूपम् ?,8 अनन्तधर्मात्मकं वस्तु स्वमतधर्मविशिष्टं नयन्ति-गोचरयन्ति संवेदनमारोपयन्तीति नयाः, वस्त्वेकदेशपरामर्शा इत्यर्थः ।। तथा चोक्तम्-"एकदेशविशिष्टोऽर्थो, नयस्य विषयो मतः" इति [न्यायावतारः श्लो० १९] । ते अनन्तधर्माध्यासितस्वाद्वस्तुतस्तेषां अनन्तता, तथापि सर्वत्र प्रसिद्धत्वात् सप्त भेदा वर्ण्यन्ते । अन्येषां तेष्वेवान्तर्भावात् । ते चामी-नैगमसङ्ग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूढ़े-वम्भूताख्याः सप्त नयाः। तेषां च मध्ये नैगमाद्याश्चत्वारोऽप्यर्थनयाः, अर्थमेव | ॥५५॥ प्राधान्येन शब्दोपसर्जनमिच्छन्ति । शब्दाद्यास्तु त्रयः शब्दनयाः, शब्दप्राधान्येनार्थमिच्छन्ति ।
* अर्थ भाषन्तेऽर्हन्तः, सूत्रं प्रश्नन्ति गणधरा निपुणम् ।
ECERECORRRRRRRRRROR
RUS
Jain Education
Nional
For Private & Personel Use Only
Vrjainelibrary.org
Page #11
--------------------------------------------------------------------------
________________
(१) तत्र नैगमस्येदं स्वरूपम् , तद्यथा-निगम्यन्ते-विविक्तं परिच्छिद्यन्ते निगमा-घटादयोऽर्थास्तेषु भवो नैगमः। अथवा सामान्यविशेषात्मकस्य वस्तुनो न एकेन प्रकारेण गमः-परिच्छेदो नैकगमः । अयं हि सत्तालक्षणं महासामान्यमवान्तरसामान्यानि च द्रव्यत्वगुणत्वकर्मत्वजीवत्वादीनि तथाऽन्त्यविशेषानसाधारणरूपलक्षणान् अवान्तरविशेषांश्च परमावाश्रितघटादीन् शुक्लादीन् वाऽभिप्रेति । अयं च नैगमः सामान्यविशेषात्मकवस्तुसमाश्रयणेऽपि न सम्यग्दृष्टिः, भेदेनैव सामान्यविशेषयोराश्रयणात् , तन्मताश्रितनैयायिकवैशेषिकवत् ॥१॥ | (२) अधुना सङ्ग्रहाकूतं दयते-तत्र सङ्ग्रहाति समस्तविशेषप्रतिक्षेपद्वारेण सामान्यरूपतया सकलं वस्त्विति सङ्ग्रहः ।। तथाहि-अप्रच्युतानुत्पन्नस्थिरैकस्वभावमेव सत्तारूपं वस्तु, सत्ताव्यतिरिक्तस्य त्ववस्तुत्वं, खरविषाणस्येवेति । स च सङ्ग्रहः सामान्यविशेषात्मकस्य वस्तुनः सामान्यांशस्यैवाश्रयणान्मिथ्यादृष्टिः, तन्मताश्रितसाङ्ख्यवत् ॥२॥
(३) व्यवहारनयस्य तु स्वरूपमिदं-व्यवहियते लौकिकैरनेनाभिप्रायेणेति व्यवहारः। अयं तु मन्यते, यथा-लोकग्राहमेव वस्तु, न तु यथा शुष्कतार्किकैः स्वाभिप्रायलक्षणानुगतमुच्यते तथाभूतं, आगोपालाङ्गनादिप्रसिद्धत्वाद्वस्तुस्वरूपस्येति । अयमप्युत्पादव्ययध्रौव्यात्मकवस्त्वनभ्युपगमान्मिथ्यादृष्टिः, तथाविधरथ्यापुरुषवत् ॥३॥
(४) साम्प्रतं ऋजुसूत्राभिप्रायः कथ्यते-तत्र ऋजु-प्रगुणं अतीतानागतवस्तुपरित्यागेन वर्तमानक्षणवर्तिवस्तुनो रूपं द सूत्रयति-निष्टङ्कितं गमयतीति ऋजुसूत्रः । अस्याभिप्रायः-अतीतस्य विनष्टत्वात् अनागतस्यालब्धलाभत्वात् खरवि
पाणादिभ्योऽविशिष्यमाणतया नार्थक्रियानिर्वर्तनक्षमत्वम् । अर्थक्रियाक्षम वस्तु, तदभावान्न तयोर्वस्तुत्वमिति ऋजुसूत्रः ।
For Private & Personel Use Only
Page #12
--------------------------------------------------------------------------
________________
नयवक्तव्यतायां शब्दद्वारकनयत्रिकस्वरूपम्
लध्वजिअयमपि सामान्यविशेषोभयात्मकस्य वस्तुनः सामान्यांशपरित्यागेन विशेषांशस्यैव समाश्रयणात् शौद्धोदनिवन्न सम्यग्सविवरणम् दृष्टिः, कारणभूतद्रव्यानभ्युपगमेन तदाश्रितस्य विशेषस्यैवाभावात् ॥४॥
तदिदमर्थस्वरूपनिरूपणप्रवणानां नयानां मतमुपवर्णितम् । अधुना शब्दद्वारकाणां मतमुपवर्ण्यते(५) इदं साधारणमात्रं त्रयाणामभिप्रायाकूतं, यदुत-शब्द एवार्थः, न ततो भिन्नोऽर्थः । तथाचानुमानम्-यस्मिन् प्रतीयमाने यन्नियमेन प्रतीयते तत्ततो न भिद्यते, यथा शब्दस्वरूपं शब्दात् , प्रतीयते च शब्दे प्रतीयमाने नियमेनार्थः, तस्मान्न ततो भिन्नः। सम्प्रत्ये कै]कमतं कथ्यते-तत्र शब्द्यते-आहूयतेऽनेनाभिप्रायेणार्थ इति शब्दः । अयमभिमन्यते)। गम्यते-रूढितो यावन्तो ध्वनयः कस्मिंश्चिदर्थे प्रवर्तन्ते, यथेन्द्रशक्रपुरन्दरादयः, अमी(ते)षां एकोऽर्थो वाच्यः इति ।। अयं चार्थशब्दपर्यायोभयरूपस्य वस्तुनः शब्दपर्यायस्यैव समाश्रयणान्मिथ्यादृष्टिः॥५॥ | (६) साम्प्रतं समभिरूढ उच्यते-पर्यायाणां नानार्थतया समभिरोहणात् समभिरूढः । नवयं घटादिपर्यायाणामेकार्थतामिच्छति । तथाहि-घटनाद् घटः । कुटनात् कुटः। को भातीति कुम्भः। न हि घटनमेव कुटनमिति, शब्दप्रवृत्तिनिमित्तस्य न परस्यानुगतिरिति । तदयमपि मिथ्यादृष्टिः, पर्यायाभिहितधर्मवद्वस्तुनोऽनाश्रयणात् , गृहीतप्रत्येकावयवान्ध- हस्तिज्ञानवत् ॥ ६॥
(७) एवम्भूताभिप्रायस्त्वेवं-यदैव शब्दप्रवृत्तिनिमित्तं चेष्टादिकं तस्मिन् घटादौ वस्तुनि भवेत् , तदैवासौ युवतिमस्तकारूढ उदकाद्याहरणक्रियाप्रवृत्तौ घटो भवति, न निर्व्यापारः, शब्दव्युत्पत्तिनिमित्तशून्यत्वात् , पटादिवत् । इत्येवम्प्रकारस्य
॥५६॥
For Private & Personel Use Only
Page #13
--------------------------------------------------------------------------
________________
भूतस्य-अर्थस्य समाश्रयणादेवम्भूतनयो भवति, तदयमप्यनन्तधर्माध्यासितस्य वस्तुनोऽनाश्रयणान्मिथ्यादृष्टिः, रत्नावल्यवयवे पद्मरागादौ कृतरत्नावलीव्यपदेशपुरुषवत् ॥७॥ तदेवं सर्वेऽपि नयाः प्रत्येकं साधारणाः सन्तो मिथ्यादृष्टयोऽन्योन्यं सव्यपेक्षास्तु सम्यक्त्वं भजन्ते, तदुक्तम् (१)॥
ततश्च बहुविधा-नानाप्रकारा नयभङ्गा-अभिप्रायविशेषविकल्पा यत्र तद् बहुविधनयभङ्गं, सर्वनयविषयधर्मात्मकमित्यर्थः। तथा नित्यं द्रव्यात्मकतया, अनित्यं पर्यायात्मकतया । तथा सत्-स्वकीयद्रव्यक्षेत्रकालस्वभावापेक्षया भावात्मकं, असत्परद्रव्यक्षेत्रकालस्वभावापेक्षया स्वभावात्मकम् । तथा अनभिलाप्यं वचनागोचरधर्मात्मकत्वेनावक्तव्यम् , अभिलाप्यं-17 वचनगोचरधर्मस्वभावत्वेन वक्तव्यम् । तथा एक-सामान्यात्मकं, अनेक-विशेषात्मकं । एवं परस्परविरुद्धधर्मात्मकवस्तुप्रतिपादकमित्यर्थः। एवंविधं च सत् कीदृशं जिनवचनम् ?, कुनयाः-सदात्मकमेव वस्तु इति साङ्ख्याः, असदात्मकमेवेति माध्यमिकाः, नित्यमेवैकमेवेति साङ्ख्याः, अनित्यमेवानेकमेवेति च बौद्धाः, अभिलाप्यमेवेति वैयाकरणाः, अनभिलाप्यमेवेति च बौद्धाः, 'प्रतिक्षणं नश्वरमितरव्यावृत्तं च वस्तु, तच्च न शब्दगोचरः, शब्दस्य स्थिरसामान्यरूपार्थविषयत्वात्' इति हि बौद्धराद्धान्तः, अनन्तधर्मात्मके वस्तुनि एकमेव धर्म, सदात्मकमेव वस्त्वित्यादि सावधारणमभिमन्यमाना मिथ्यादृष्टित्वेन कुत्सिता मतविशेषास्तेषां विरुद्ध-असमञ्जसतया प्रतिभासमानं । ननु नित्यमनित्यपरिहारेण व्यवस्थितं; अनित्यमपि नित्यपरिहारेण, भावाभावयोः परस्पराभावात्मकत्वात् , एवं च सदादिष्वपि वाच्यम् , तत एकत्र विरुद्धधर्मात्मकत्वप्रतिपादकं भगवद्वचनं कथं मिथ्यादृशामेव विरुद्धतया प्रतिभासत इत्युच्यते ?, इत्याशङ्कयाह
Jain Education
For Private & Personel Use Only
Page #14
--------------------------------------------------------------------------
________________
प्रभोः स्याद्वादोपदेशकत्वसिद्धिः
लध्वजि० 'सुप्पसिद्धं च'-प्रमाणोपपन्नम् । तथाहि-अयमात्मा आत्मत्वापरिच्युतेनित्यः, देवत्वादिपर्यायविनाशाच्चानित्यः । यदि सविवरणम्चायं सर्वथाऽपि नित्य एव स्यात् ? तर्हि न देवत्वादिपर्यायविनाशः स्यात् । अथ सर्वथाऽप्यनित्य एव स्यात् ? तर्हि देवत्वा
दिपर्यायस्येवात्मत्वस्यापि विनाशाद्देवत्वपर्यायत्यागेन मनुष्यपर्याये सति आत्मव्यपदेशो न स्यात् । तथाऽयमात्मा स्वद्रव्यक्षेत्रकालस्वभावात्मकत्वेन सन् परद्रव्यक्षेत्रकालस्वभावात्मकत्वेनासन् । यदि चाऽयं सर्वथा सन् स्यात् ? [तदा] घटाद्यात्मकत्वस्यापि प्राप्त्या जडोऽपि स्यात् , यदि च सर्वथाऽप्यसन् स्यात् तदा खद्रव्याद्यात्मकत्वेनापि न भावरूपः प्रतिभासेत । तथाऽयमात्माऽऽत्मत्वादिधर्मात्मकतयाऽभिलाप्यः, घटत्वादिधर्मात्मकतया त्वनभिलाप्यः । यदि च सर्वथाऽप्यभिलाप्यः स्यात् ? तदा घटाद्यात्मकोऽप्युच्येत । किञ्च-केचिद्धाः सन्तोप्यनभिधेयाः। तथाहि___ "इक्षुक्षीरगुडादीनां, माधुर्यस्यान्तरं महत् । तथाऽपि न तदाख्यातुं, सरस्वत्याऽपि पार्यते ॥१॥" एवञ्चानुभवसिद्धा वक्तुमशक्या अपि सन्त्यनन्ता धर्मा इति सिद्धम् । तथाच"पण्णवणिज्जा भावा, अणंतभागो उ अणभिलप्पाणं । पण्णवणिजाणं पुण, अणंतभागो सुयनिबद्धो ॥१४१॥"
विशेषावश्यकभाष्यम् । इति सिद्धान्तवचोऽतीवोपपन्न-सम्पन्नम् । तथा यदि सर्वथाऽप्यनभिलाप्योऽयमात्मा स्यात् ? तदा आत्मशब्दादहंप्रत्ययगोचरस्य चिद्रूपस्य पदार्थविशेषस्य प्रतीतिर्न स्यात् । किञ्च-"शब्दो नार्थप्रतिपादक" इति ये प्रलपन्ति ते "अहं मौनी"ति
१ प्रज्ञापनीया भावा, अनन्तभागस्तु (एव) अनभिलाप्यानाम् । प्रज्ञापनीयानां पुनरनन्तभागः श्रुतनिबद्धः ॥ १॥
॥५७॥
Jain Eduentan
I
For Private & Personel Use Only
almw.jainelibrary.org
Page #15
--------------------------------------------------------------------------
________________
SAUSAGESSOAREG
प्रतिपादकवत् स्वव्याघातकप्रतिज्ञाप्रतिपादनपरा न सहृदां वार्तनीयाः । तथाऽयमात्मा सामान्यरूपेण द्रव्यत्वादिना एकः, द्रव्यक्षेत्रकालस्वभावादिना सर्वेतरच्यावत्तेन रूपेणानेकः। यदि चैकरूप एव सर्वथा स्यात् । तदैकः सुखी अन्यो दुःखी एकः स्वपिति अन्यो जागर्ति इत्यादिभेदो न प्रतिभासेत । अथ नानारूप एव सर्वथा स्यात् । तदाऽयमा(त्माऽयमात्मेत्येकरूपावभासो न स्यात् । तदनयैव गत्या सर्वेऽपि पदार्था व्याख्येयाः। तदुक्तम्| "आदीपमाव्योमसमस्वभावं, स्याद्वादमुद्राऽनतिभेदिवस्तु । तन्नित्यमेवैकमनित्यमन्य-दिति त्वदाज्ञाद्विषतां प्रलापाः॥५॥"
[अन्ययोगव्यवच्छेदद्वात्रिंशिका] एवं च प्रतिभासमुद्गरप्रतिहतं स्याद्वादे विरोधोद्भावनं नोत्थातुमपि शक्नोतीत्यर्थः। अतएव 'अवयणिज्ज' अवचनीयं, विरोधाभावादशक्यदोषोद्भावनमित्यर्थः॥८॥ इदानीं भगवतोानप्रभावाविर्भावद्वारेण स्तुतिमाह
पसरइ तियलोए ताव मोहंऽधयारं, भमइ जयमसन्नं ताव मिच्छत्तछन्नं ।
(प्रसरति त्रैलोक्ये तावन्मोहान्धकार, भ्रमति जगदसंज्ञं तावन्मिध्यात्वच्छन्नम् ।) फुरइ फुडफलंताणतणाणंसुपूरो, पयडमजियसंतीझाणसूरो न जाव ॥९॥-मालिनी (स्फुरति स्फुटफलदनन्तज्ञानांशुपूरः, प्रकटमजितशान्तिध्यानसूरो न यावत् ॥ ९॥)
For Private & Personel Use Only
Page #16
--------------------------------------------------------------------------
________________
लध्वजि० सविवरणम्
भगवतो
ानमाहात्म्यम्
व्याख्या-प्रसरति-व्याप्तिं करोति । किं तत् ?, मोहान्धकारं, मोहा-पुत्रमित्रकलत्रादिषु स्नेहरूपमोहनीयकमें निवास एवान्धकारं मोहान्धकारम् । व?, त्रैलोक्ये-जगत्रये, कथं?, तावत् । तथा भ्रमति-विपरीतं प्रवर्तते। किं तत्?, जगत्भुवनम् । कीदृक् ?, असंज्ञं-धर्माधर्मादिविशिष्टविज्ञानविकलम् । कीदृशं सत् ?, मिथ्यात्वच्छन्नं, मिथ्यात्वेन-सम्यक्त्वाभावेन छन्नम्-आच्छादितम् । कथं ? तावत् । यावत् किं ?, यावन्न स्फुरति-यावन्नोदेति। कोऽसौ ?, अजितशान्तिध्यानसूरः,8 अजितशान्त्योानं-शुक्लध्यानरूपं, तदेव सूरः-आदित्यः । कथं ?, प्रकटं-कर्मरजःपटलानावृतम् । कीदृशः?, स्फुटफलदनन्तानन्तज्ञानांशुपूरः, अनन्तं च तत् ज्ञानं-केवलाद्वं च, तदेवांशुपूरः-किरणसमूहः। स्फुट-(प्रगट) व्यक्तं, फलनुल्लसन् अनन्तज्ञानमेवांशुपूरो यस्य स तथोक्तः । यथा-यावदेवादित्यो नोदेति तावदेवान्धकारं जगति प्रसरति; तावदेव च निद्राविलुप्तचैतन्यं जगद् भवति । तस्मिंस्तूदिते नान्धकारं नापि निद्रयाऽचैतन्यम् , एवं तावदेव जगति मोहः प्रसरति; तावदेव च जगत् मिथ्यात्वेन निद्रारूपेण चैतन्य विकलं भवति; यावद् भगवतोः शुक्लध्यानं अनन्तज्ञानोत्पादकं नोदयमासादयति, यदा तु भगवतोः शुक्लध्यानात् त्रैलोक्यप्रकाशकं केवलज्ञानमुत्पद्यते तदा भगवतोर्देशनया मोहो मिथ्यात्वं च समूल-टू मुन्मूल्यते इति भावः ॥९॥ सम्प्रति भगवतोवर्णनामाहात्म्यमाह
अरिकरिहरितिण्हुण्हंबुचोराहिवाही-समरडमरमारीरुद्दखुद्दोवसग्गा । (अरिकरिहरितृष्णोष्णाम्बुचौराधिव्याधि-समरडमरमारिरौद्रक्षुद्रोपसर्गाः ।)
॥५८॥
For Private & Personel Use Only
Page #17
--------------------------------------------------------------------------
________________
AGARAAGAR
पलयमजियसंतीकित्तणे झत्ति जंती, निबिडतरतमोहा भक्खरालुंखियच ॥१०॥-मालिनी
(प्रलयं अजितशान्तिकीर्तने झगिति यान्ति, निविडतरतमओघाः भास्करालुसिता इव ॥ १०॥) व्याख्या-श्रीअजितशान्तिवर्णने सति झगिति-शीघ्रं यान्ति-गच्छन्ति । कम् ?, प्रलयं-क्षयम् । के?, अरिकरिहरितृष्णोष्णाम्बुचौराधिव्याधिसमरडमरमारिरौद्रक्षुद्रोपसर्गाः। अरयः-शत्रवः, करिणो-हस्तिनः, हरयः-सिंहाः, तृष्णा-पिपासा, उष्णः-आतपः, अम्बु-जलं, चौराः-तस्कराः, आधयो-मनोजनितपीडाविशेषाः, व्याधयो-ज्वरभगन्दरादयः,समरः-सङ्ग्रामः, डमरो-राजकृतोपद्रवः, मारिः-कुपितभूतपिशाचादिकृतप्राणिक्षयः, रौद्रक्षुद्रोपसर्गाः-भयानकक्रूराशयव्यन्तरादिविहितोपद्रवाः । एतेषामितरेतरद्वन्द्वसमासः। अत्रोपमानमाह-क इव प्रलयं यान्ति ?, निबिडतरमओघा इव-अतिगाढान्धकारप्रकरा इव । अत्रोपमानवचन इव शब्दो विशेषणपदाग्रे न्यस्तोऽप्यत्र विशेष्यपदपुरो योज्यते । कीदृशाः, "भक्खरालं-18 खियोति।भास्करण-आदित्येन आलुजिताः-स्पृष्टाः। "स्पृशः-फास-फंस-फरिस-छिप-छिलाहा-ऽऽलुंखा-ऽऽलिहाः" [८-४-१८२ है.] इत्यनेन स्पृशेरालुङ्खादेश इति ॥१०॥ अथ भगवतो रूपस्थध्यानद्वारेण स्तुतिमाह
निचियरियदारुद्दित्तझाणग्गिजाला-परिगयमिव गोरं चिंतियं जाण रूवं ।
(निचितदुरितदारूदीप्तध्यानाग्निज्वाला-परिगतमिव गौरं चिन्तितं ययोः रूपम् ।)
Jain Educate
T
wiainelibrary.org
Page #18
--------------------------------------------------------------------------
________________
लध्वजि० सविवरणम्
कणयनिहसरेहाकतिचोरं करिजा, चिरथिरमिह लच्छि गाढसंथभियव ॥११॥-मालिनी भगवतो(कनकनिकषरेखाकान्तिचौरं कुर्यात् , चिरस्थिरमिह लक्ष्मी गाढसंस्तम्भितामिव ॥ ११ ॥)
देहकान्तिव्याख्या-ययोः श्रीअजितशान्त्योः रूपं कर्तृचिन्तितं-ध्यातं सत् [इह जगति ] कुर्यात् । काम् ?, लक्ष्मीम् । कीह
माहात्म्यम् शीम् ?, चिरस्थिरां। चिरं-चिरकालं स्थिरां-निश्चलाम् । कामिव ?, गाढसंस्तम्भितामिव । गाढं-अत्यर्थ संस्तम्भिता-सम्यम् नियन्त्रिता, तामिव । यथा गाढं नाराचादिना पाञ्चालिका चिरं स्थिरा भवति, एवं यद्रूपध्यानालक्ष्मीरित्यर्थः । कीदृशंद रूपम् ?, गौरं-अवदातम् । कियन्मानेन गौरमित्याह-कनकनिकषरेखाकान्तिचौरं । कनकस्य-स्वर्णस्य निकषः-कषपट्टस्तत्र | रेखा कनकनिकपरेखा, तस्याः कान्तिद्युतिस्तां चोरयति-अनुकरोति यत् तत्तथा । अत्र गौरत्वे उत्प्रेक्षामाह-निचितदुरितदारूद्दीप्तध्यानाग्निज्वालापरिगतमिव । दुरितानि-दुष्कृतानि, तान्येव दारूणि-इन्धनानि दुरितदारूणि, ध्यानमेवाग्निःवह्निानाग्निः, निचितानि-अनेकभवशतेषु सञ्चितानि-उपार्जितानि यानि दुरितदारूणि, तैरुद्दीप्तः-उज्ज्वालितो योऽसौ | ध्यानाग्निस्तस्य ज्वाला-कीला, तया परिगतं-व्याप्तम् । 'इव'शब्दोऽत्रोत्प्रेक्षावचनः॥११॥ अथ पुनर्भगवतस्तस्यैव ध्यानस्य फलविशेषद्वारेण स्तुतिमाह
॥ ५९॥ अडविनिवडियाणं पत्थियुत्तासियाणं, जलहिलहरिहीरंताण गुत्तिट्टियाणं । (अटविनिपतितानां पार्थिवोत्रासितानां, जलधिलहरिहियमाणानां गुप्तिस्थितानाम् ।)
Jain Education international
For Private & Personel Use Only
Page #19
--------------------------------------------------------------------------
________________
जलियजलणजालालिंगियाणं च झाणं, जणयइ लहु संतिं संतिनाहाजियाणं ॥१२॥-मालिनी
(ज्वलितज्वलनज्वालालिङ्गितानां च ध्यानं, जनयति लघु शान्ति शान्तिनाथाजितयोः ॥ १२ ॥) व्याख्या-शान्तिनाथाजितयोानं-संस्मरणं कर्तृ [चिन्तिम् , लघु-शीघ्रम् ] । जनयति-करोति । काम् ? शान्तिशिवम् । केषाम् ?, अर्थाद् ध्यानकर्तृणाम् । कीदृशानाम् ?, अटविनिपतितानाम् । अटव्यां-अरण्ये, सार्थविच्छुट्टनादिकारणेन निपतितानां-संस्थितानाम् । तथा पार्थिवोत्रासितानाम् । पार्थिवैः स्वदेशपरदेशोद्भवैर्नृपतिभिरुत्रासितानां ता(भा)पितानाम् । तथा जलधिलहरिहियमाणानां, यानभङ्गादिनाऽन्तःपाते सति समुद्रवीचीभिरितस्ततः प्रेर्यमाणानाम् । तथा गुप्तिस्थितानां, गुप्तौ-कारागारे स्थितानां-प्रक्षिप्तानाम् । तथा ज्वलितज्वलनज्वालालिङ्गितानां, ज्वलितो-दीप्यमानश्चासौ ज्वलनो-दावानलादिलक्षणश्च, तस्य ज्वाला:-शिखास्ताभिः आलिङ्गिता-व्याप्तास्तेषाम् । अत्र प्रथमं शान्तिनाथनामोच्चारणं ततोऽजितस्यानुप्रासकारणात् छन्दोभङ्गभयाद् वा ॥१२॥ अथ साम्राज्यपरित्यागपूर्वक चारित्राङ्गीकारं भगवतोर्वर्णयन् प्रार्थनामाह
हरिकरिपरिकिन्नं पक्कपाइकपुन्नं, सयलपुहविरजं छडिउं आणसजं ।
(हरिकरिपरिकीर्ण पक्कपादातिपूर्ण, सकलपृथिवीराज्यं छर्दित्वा आज्ञासज्जम् ।) तणमिव पडलग्गं जे जिणा मुत्तिमरगं, चरणमणुपवना हुतु ते मे पसन्ना ॥१३॥-मालिनी
(तृणमिव पटलग्नं यौ जिनौ मुक्तिमार्ग, चरणमनुप्रपन्नौ भवतस्तौ मे प्रसन्नौ ॥ १३ ॥)
in Education
For Private & Personel Use Only
Rainelibrary.org
Page #20
--------------------------------------------------------------------------
________________
लध्वजि० सविवरणम्
भगवतोश्चारित्राङ्गीकारमाहात्म्य
॥१०॥
वर्णनम्
व्याख्या-तौ-अजितशान्ती भवतां-स्याताम् । कीदृशौ भवताम् !, [इति] विशेषणे तात्पर्यम् । प्रसन्नौ-प्रसादपरौ । कस्य ?, मे-मम तौ प्रसादपरौ भवताम् । यो जिनौ किंविशिष्टौ ?, अनुप्रपन्नौ-अङ्गीकृतवन्तौ । किम् ?, चरणं-चारित्रम्। कीहक् ?, मुक्तिमार्ग। मुक्तौ-मुक्तिपत्तने मार्ग इव-पन्था इव, मुक्तिमार्ग, चरणमेव हि मुक्तिगमने मार्गः, यदुच्यते"सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्ग:"।[त०१-१] किं कृत्वा ?, छर्दित्वा-परित्यज्य । किम् ?, सकलपृथ्वीराज्यम् । कीदृशम् ?, हरिकरिपरिकीर्णम् । हरयः-केवाणबाहीकादिदेशोद्भवा जात्यास्तुरङ्गमाः, करिणो-भद्रजातीयसप्ताङ्गभूप्रतिष्ठितमतङ्गजास्तैः परि-समन्तात् कीर्ण-व्याप्तम् । तथा पुनः किंविशिष्टम् ?, पक्कपादातिपूर्ण । पक्का:-रिपुनिग्रहसमर्थाः पदातयः-पत्तयस्तैः पूर्ण-युक्तम् । कदाचिद्राज्यमपि पराभवपात्रं विडम्बना(कारक)पात्रं ब्रह्मदत्तचक्रिण इव भवति, तदा परित्यागोचितं भवतीत्याशङ्याह-आज्ञायां-आदेशे सज-प्रगुणं च तत्, सकलसामन्तैः सुरेन्द्रैरपि योजितकरकमलैः शासनं शिरसि धार्यते इति भावः। किमिव त्यक्तं राज्यं ?, तृणमिव । किंविधम् ?, पटलग्नम् । यथा पटलग्नं-वस्त्राञ्चलावलम्बितृणमाच्छोट्य त्यज्यते तथा तादृशमपि राज्यं छर्दितमिति भावः ॥ १३ ॥ सम्प्रति रमणीया(मर)रमणीवन्दनीयत्वप्रतिपादनद्वारेण स्तुतिमाह
छणससिवयणाहिं फुल्लनीलुप्पलाहिं, थणभरनमिरीहिं मुट्ठिगिज्झोदरीहिं ।
(क्षणशशिवदनाभिः फुल्लनेत्रोत्पलाभिः, स्तनभरनम्राभिर्मुष्टिग्राह्योदरीभिः।)
GRAMGARLS
॥६०॥
For Private & Personel Use Only
Page #21
--------------------------------------------------------------------------
________________
बैरा० ११
Jain Education
ललियभुयलयाहिं पीणसोणित्थलीहिं, सय सुररमणीहिं वंदिया जेसि पाया ॥ १४ ॥ - मालिनी (ललितभुजलताभिः पीनश्रोणिस्थलीभिः, सदा सुररमणीभिः वन्दिताः ययोः पादाः ॥ १४ ॥ )
व्याख्या - "हुंतु ते मे पसन्ना" इति पूर्ववृत्तस्थं तच्छब्दवाक्यं अत्रापि सम्बध्यते । ययोः श्रीअजितशान्त्योः पादाः - क्रमाः वन्दिताः - प्रणताः । काभिः ?, सुररमणीभिः । सुरा - भवनपतिव्यन्तरज्योतिष्कवैमानिकास्तेषां रमण्यः - कामिन्यस्ताभिः । कथम् ?, सदा । कीदृशीभिः ?, क्षणशशिवदनाभिः । क्षण:- पूर्णिमारूपं पर्व, तस्य शशी-चन्द्रः, तद्वत् वदनं मुखं यासां तास्तथोक्तास्ताभिः । तथा फुल्लनेत्रोत्पलाभिः । नेत्राण्येवोत्पलानि - इन्दीवराणि नेत्रोत्पलानि, फुलानि - निर्निमेषत्वेन सदा विकस्वराणि नेत्रोत्पलानि - लोचनकमलानि यासां तास्तथोक्ता[स्ता ]भिः । तथा स्तनभरनम्राभिः । स्तनयोः - कुचयोर्भरःप्राग्भारो; गुरुत्वं तेन नम्रा - नताङ्ग्यः, ताभिः । 'नमिरीहिं'ति " शीलाद्यर्थस्येरः” [८-२-१४५ है ० । ] अनेन शीलाद्यर्थस्य इर (?) प्रत्ययस्य इरादेशः । तथा मुष्टिग्राह्योदरीभिः । मुष्टिना ग्राह्यमुदरं यासां तास्तथोक्तास्ताभिः । लक्षणयुक्ता हि स्त्रियः कृशोदरा एव भवन्ति । तथा ललितभुजलताभिः । ललिते - मनोहरे भुजलते - बाहुलते, बाहुवल्ल्यौ यासां तास्तथोक्तास्ताभिः । तथा पीनश्रोणिस्थलीभिः । पीना - उपचिता श्रोणिस्थली-कटितटी यासां तास्तथोक्तास्ताभिः । लता-स्थलीशब्दौ शोभावचनौ ॥१४॥ साम्प्रतं परमपुरुषार्थ हेतु संयमानुष्ठान विघ्नभूतरोगापहारं भगवतः सकाशात् प्रार्थयति -
अरिसकिडिभकुट्टग्गंठिकासाइसार-क्खयजरवणलू आसाससोसोदराणि । (अर्शःकिटिभकुष्ठप्रन्थिकासातिसार-क्षयज्वरव्रणलूताश्वासशोषोदराणि । )
jainelibrary.org
Page #22
--------------------------------------------------------------------------
________________
लध्वजि० सविवरणम्
SECASSASAR
॥११॥
नहमुहदसणच्छीकुच्छिकन्नाइरोगे, मह जिणजुयपाया सप्पसाया हरंतु ॥ १५॥-मालिनी
| सप्रसादा
जिनयुग(नखमुखदशनाक्षिकुक्षिकर्णादिरोगान् , मम जिनयुगपादाः सप्रसादाः हरन्तु ॥ १५ ॥)
पादाममाव्याख्या-जिनयुगपादाः । जिनयो:-अजितशान्त्योयुग-युग्मं, तस्य पादाः-क्रमाः। किंविशिष्टाः १, सप्रसादाः-प्रसत्ति- दिरोगायुक्ताः, मे-मम हरन्तु-अपनयन्तु । कानि?, अर्शः-किटिभ-कुष्ठ-ग्रन्थि-कासा-अतिसार-ज्वर-व्रण-लूता-श्वास-शोषो-दराणि ।
नपहरअासि-गुदाकुराः, किटिभो-जङ्घाचरणसन्धिभावी रोगविशेषः, कुष्ठं-त्वग्विकारविशेषः, ग्रन्धिर्वातरक्तोद्भवो मांसोपचयः,
न्त्विति कासातिसारौ प्रसिद्धौ, क्षयो-धात्वपचयः, ज्वरः-तापः, व्रणः-गण्डः अष्टाविंशतिभेदभिन्नः, लूता-द्वात्रिंशद्भेदभिन्ना दुष्ट
प्रार्थना स्फोटिकाः, श्वासः-श्वासातिरेकः, शोषः-कण्ठोष्ठताल्वादिशोषः, उदरं-उदररोगः, जलोदरकठोदरादिः । अत्रेतरेतरद्वन्द्वसमासः। तथा नख-मुख-दशना-क्षि-कुक्षि-कर्णादिरोगान् । नखाः-पुनर्भवः, मुख-वदनं, दशना-दन्ताः, अक्षि-चक्षुः, कुक्षिः-जठरं, कौँ-श्रुती । नखाश्च मुखं च दशनाश्च अक्षि च कुक्षिश्च कर्णौ च नखमुखदशनाक्षिकुक्षिकर्णा इति समाहारद्वन्द्वः । तत् आदिर्येषां कण्ठादीनां ते कर्णादयस्तेषां रोगा-आमयास्तान् ॥१५॥ इदं सर्वश्रेयस्करं सर्वविघ्नहरं स्तवनं प्रति भव्यान् प्रवर्तयितुमाह
GIU६१ ॥ इय गुरुदुहतासे पक्खिए चाउमासे, जिणवरदुगथुत्तं वच्छरे वा पवित्तं । (इति गुरुदुःखनासे पाक्षिके चातुर्मासे, जिनवरयुगस्तोत्रं वत्सरे वा पवित्रम् ।)
Jain Educatio
n
al
For Private Personel Use Only
A
jainelibrary.org
Page #23
--------------------------------------------------------------------------
________________
पढह सुणह सज्झाएह झाएह चित्ते, कुणह मुणह विग्धं जेण घाएह सिग्धं ॥१६॥- मालिनी
(पठत शृणुत स्वाध्यायत ध्यायत चित्ते, कुरुत जानीत विघ्नं येन घातयत शीघ्रम् ॥ १६ ॥) व्याख्या-भो भव्याः! यूयं इति-उत्तप्रकारेणेदं जिनवरद्विकस्तोत्रं । जिनवरयोः-अजितशान्त्योर्द्विकं-युग्म, तस्य स्तोत्रं-स्तवनम् । कीदृशम् ?, पवित्रं-प्रधानम् । किम् ?, पठत-अधीध्वं पट्टिकादौ लिखित्वा, तथा शृणुत-आकर्णयत ॥ सूत्रतोऽर्थतश्च कथ्यमानं, स्वाध्यायत-गुणयत विकथात्यागेन, ध्यायत-स्मरत पदपदार्थादिचिन्तनेन, चित्ते-मनसि
कुरुत-विधत्त आर्तरौद्रपरिहारेण, कदाचिदपि चित्तान्मा मुञ्चतेत्यर्थः । 'मुणहे ति "ज्ञो जाणमुणौ" [८-४-७ है.] इत्यनेन ज्ञाधातोर्मुणादेशः, तेन सूत्रार्थतो जानीतेत्यर्थः । पठनादेः प्रस्तावविशेषमाह-पक्षे भवं पाक्षिक पर्व, तस्मिन् । |तथा चतुषु मासेषु भवं चातुर्मासं पर्व, तस्मिन् , तथा वत्सरे-पर्युषणापर्वणि । वा शब्दः समुच्चये । कीदृशे पाक्षिके चातुर्मासे संवत्सरे वा पर्वणि ?, गुरुदुःखत्रासे । गुरुदुःखानि-भवान्तरोपचितदुष्कर्मप्रभवाण्यसातानि, तानि त्रासयति-भापयते, परमनिर्जराहेतुत्वेन नाशयतीति भावः, गुरुदुःखत्रासं, तस्मिन् । एतत्पठनादौ हेतुमाह-येन-स्तोत्रपठनादिना कारणेन 31 घातयत-विनाशयत । किं तत् कर्मतापन्नम् ?, विघ्नं-धर्मान्तरायम् । कथम् ?, शीघं-झटिति, पठनानन्तरमेवेत्यर्थः ॥१६॥ अथ स्तोत्रं समर्थयन् स्तोतॄन् प्रति भगवन्तौ श्रेयस्करणविघ्नापहारौ प्रार्थयतिइय विजयाजियसत्तुपुत्त ! सिरिअजियजिणेसर !, तह अइराविससेणतणय ! पंचमचक्कीसर!। (इति विजयाजितशत्रुपुत्र ! श्रीअजितजिनेश्वर !, तथा अचिराविश्वसेनतनय ! पञ्चमचक्रीश्वर!।)
For Private & Personel Use Only
Page #24
--------------------------------------------------------------------------
________________
लध्वजि० सविवरणम् ॥१२॥
सर्वविघ्नहरमिदं स्तव
नीडर ! षोडश[म,
व
यः । तथा-अपहरख
नमित्यस्व पठनादौ भव्यानां प्रेरणम्
, इति-पूर्वोक्तप्रकार
क्रीडतः
तित्थंकर! सोलसम संतिजिण! वल्लह ! संतह, कुरु मंगलमर्वहरसु दुरियमखिलं पि थुणंतह ॥१७॥-द्विपदी|
(तीर्थङ्कर ! षोडशम शान्तिजिन ! वल्लभ ! सतां, कुरु मङ्गलमपहरस्व दुरितमखिलमपि स्तुवताम् ॥ १५॥) व्याख्या-हे श्रीअजितजिनेश्वर! विजयाजितशत्रुपुत्र! तथा शान्तिजिन ! अचिराविश्वसेनतनय ! पञ्चमचक्रीश्वर !, तीर्थकर ! षोडश म], वल्लभ!-अभीष्ट!। केषाम् ?, सतां-साधूनाम् । एतानि सर्वाणि सम्बोधनपदानि । एवंविधस्त्वं भगवन् ! कुरु-विधेहि । किम् ?, मङ्गलं-श्रेयः। तथा-अपहरख-अपनय । किं तत् ?, दुरितं-दुष्कृतम् । किंविशिष्टम् ?, अखिलमपि-समस्तमपि । केषाम् ?, स्तुवतां-स्तवनं पठताम् । कथम् ?, इति-पूर्वोक्तप्रकारेण । अत्र 'जिनवल्लभेति अनेन कविना भड्यन्तरेण खनाम सूचितं वर्तते । पुरा हि श्रीजितशत्रुमहाराजविजयादेव्यौ सारिद्यूतेन क्रीडतः। देवी च सर्वदा हारयति । यदा च भगवान् श्रीअजितस्वामी मूर्तो विजय इव वैशाखशुक्लत्रयोदश्यां निशीथसमये श्रीविजयविमानत: श्रीविजयादेव्याः कुक्षाववातरत् ततः प्रभृत्येव विजयादेवी कदापि न हारयति स्म । ततो मातापितृभ्यां प्रभोरजितेति नाम कृतम् । तथा श्रीविश्वसेनमहाराजमण्डले सम्यक्प्रयुक्तविधिमण्डल इव योगिमण्डलैः विफलितमहामात्रिकतान्त्रिकाधु
१ मुद्रितप्रतिक्रमणपुस्तिकासु “संथुअ" (संस्तुत) इति । २ “मम” इति च पाठान्तरम् । ३ कृतेऽप्यायासे नाज्ञाशिष लक्षणं कुत्राप्येतस्या द्विपद्याः, केवलं वृत्तिद्भिरुल्लिखितत्वाद्विहितोऽयं नाम निर्देशः । किञ्च-वृत्तस्यास्य सादृश्यमस्ति 'जय तिहुअणे'त्यादिस्तववृत्तेन, यद्यपि तस्य 'रोलावृत्त'मित्युल्लिखितमहम्मदावादनिवासिना रामचंद्रदीनानाथशास्त्रिणा 'जय तिहुअण' स्तवस्य गौर्जरानुवादे, परं न साघटीति तल्लक्षणं तत्र, "एकादशमधिविरति" रिति लक्षणोक्तित्वा जय तिहुअण' स्तवेऽत्रापि च चतुर्दशमधिविरतिस्वादिति ।
For Private & Personel Use Only
Page #25
--------------------------------------------------------------------------
________________
गवन्तः सर्वेऽपि
भिधीयते । नच
कृतमस्ति, इति
54055 SRPESARO
पायं ग्लपितसकलजनताकायं कृतान्तप्रायमशिवं महारक्ष इवोत्थितमभूत् । तच्च भाद्रपदकृष्णसप्तमीनिशीथसमये श्रीसर्वार्थसिद्धिमहाविमानतोऽतिविक्लवजनतोपकारायेव श्रीविश्वसेनराजप्रणयिन्याः श्रीअचिरादेव्याः कुक्षिशुक्तिपुटमचिन्त्यधाग्नि भगवत्यवतीर्णमात्रेपि तथा प्रपलायितं यथाऽनुद्भूतमिवासीत् । ततोऽस्य प्रभावात् सर्वत्र शान्तिरभूदिति मातृपितृभ्यां भगवतः शान्तीत्यभिधा चके । अतो यद्यपि भगवन्तः सर्वेऽपि विजयहेतवः श्रेयोहेतवश्च तथापि विशेषतो विजयः शान्तिश्चताभ्यामेव चक्रे, इत्येतयोरेव योगपद्येन पाक्षिकादिपर्वणि स्तोत्रमभिधीयते । नचैतदनागमिकम् , यतः श्रीमहावीरशिष्यश्रीनन्दिषेणमहर्षिणाऽपि विशेषतः पाक्षिकादिपर्वणि पाय्यं श्रीअजितशान्त्योः स्तवनं कृतमस्ति, इति तदनुक्रममनुवर्तमानः श्रीजिनवल्लभसूरिरपि तथैव चकार । अत्र प्रथमं वृत्तं शार्दूलच्छन्दसा, ततो वृत्तपञ्चदशक मालिनी छन्दसा, अन्तिमं वृत्तं द्विपदीछन्दसा विरचितमस्तीति भावः॥
इति श्रीधर्मतिलकमुनिविरचिता श्रीउल्लासिक्कमस्तोत्रवृत्तिः समाप्ता॥
[वृत्तिकृत्प्रशस्तिः] शश्वत्तापरजोजडत्वशमिका सच्छायतादायिका, धूताचारुचरित्रमुख्यकगुणैः प्राप्ता च काश्चिच्छ्यिम् । येषां कीर्तिपटीजगत्रयजनैः सम्प्राप्य नक्तं दिवं, व्यापार्येत भजेत नो मलिनतां शीर्येत वा न क्वचित् ॥१॥
१ उपलभ्यते कचिच्छ्रीमन्ने मिजिन शिष्य इत्यपि, यथा-"श्रीनेमिवचनाद्यात्रा-ऽऽगतः सर्वरुजापहम् । नन्दिषेणगणेशोऽत्रा-जितशान्तिस्तवं व्यधात् ॥१॥” इति विविधतीर्थकल्पान्तर्गते शत्रुञ्जयकरपे, एवमेव शत्रुञ्जयमहाकल्पेऽपि ।
For Private
Personel Use Only
T
otainelibrary.org
Page #26
--------------------------------------------------------------------------
________________ लच्चजि. सविवरणम् WISSES वृत्तिकृत्यशस्तिः तेषां युगप्रवरसूरिजिनेश्वराणां, शिष्यः स धर्मतिलको मुनिरादधाति / व्याख्यामिमामजितशान्तिजिनस्तवस्य, स्वार्थ परोपकृतये च कृताभिसन्धिः॥२॥- युग्मम् / विचक्षणैर्ग्रन्थसुवर्णमुद्रिका, विचित्रविच्छित्तिभृ(वृ)ता विनिर्मिता / यदीयनेत्रोत्तमरत्नयोगतः, श्रियं लभन्ते क्षितिमण्डले पराम् // 3 // तैः श्रीलक्ष्मीतिलको-पाध्यायैः परोपकृतिदक्षैः / विद्वद्भिवृत्तिरियं, समशोधितरां प्रयत्नेन // 4 // युगमम् नयनकरशिखीन्दु(१३२२), विक्रमवर्षे तपस्यसितषष्ठ्याम् / वृत्तिः समर्थिताऽस्या, मानं च सविंशतिस्त्रिशती // 5 // संवत् 1587 वर्षे / ग्रंथाग्रं // 320 // संवत् 1322 वर्षे फाल्गुनसुदि 6 कृता वृत्तिरियं वाचनाचार्यश्रीधर्मतिलकगणिभिः। समाप्तमिति / शुभं भवतु / 1 "स्यात्तपस्यः फाल्गुनिकः" इत्यमरः। 2 विक्रमपुरस्थश्रीमजिनकृपाचन्द्रसूरिसत्कचित्कोषस्थायाः प्रतिकृतेः प्रान्तवय॑यं पुष्पिकालेखः / For Private & Personel Use Only