SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ लध्वजि० सविवरणम् भगवतो ानमाहात्म्यम् व्याख्या-प्रसरति-व्याप्तिं करोति । किं तत् ?, मोहान्धकारं, मोहा-पुत्रमित्रकलत्रादिषु स्नेहरूपमोहनीयकमें निवास एवान्धकारं मोहान्धकारम् । व?, त्रैलोक्ये-जगत्रये, कथं?, तावत् । तथा भ्रमति-विपरीतं प्रवर्तते। किं तत्?, जगत्भुवनम् । कीदृक् ?, असंज्ञं-धर्माधर्मादिविशिष्टविज्ञानविकलम् । कीदृशं सत् ?, मिथ्यात्वच्छन्नं, मिथ्यात्वेन-सम्यक्त्वाभावेन छन्नम्-आच्छादितम् । कथं ? तावत् । यावत् किं ?, यावन्न स्फुरति-यावन्नोदेति। कोऽसौ ?, अजितशान्तिध्यानसूरः,8 अजितशान्त्योानं-शुक्लध्यानरूपं, तदेव सूरः-आदित्यः । कथं ?, प्रकटं-कर्मरजःपटलानावृतम् । कीदृशः?, स्फुटफलदनन्तानन्तज्ञानांशुपूरः, अनन्तं च तत् ज्ञानं-केवलाद्वं च, तदेवांशुपूरः-किरणसमूहः। स्फुट-(प्रगट) व्यक्तं, फलनुल्लसन् अनन्तज्ञानमेवांशुपूरो यस्य स तथोक्तः । यथा-यावदेवादित्यो नोदेति तावदेवान्धकारं जगति प्रसरति; तावदेव च निद्राविलुप्तचैतन्यं जगद् भवति । तस्मिंस्तूदिते नान्धकारं नापि निद्रयाऽचैतन्यम् , एवं तावदेव जगति मोहः प्रसरति; तावदेव च जगत् मिथ्यात्वेन निद्रारूपेण चैतन्य विकलं भवति; यावद् भगवतोः शुक्लध्यानं अनन्तज्ञानोत्पादकं नोदयमासादयति, यदा तु भगवतोः शुक्लध्यानात् त्रैलोक्यप्रकाशकं केवलज्ञानमुत्पद्यते तदा भगवतोर्देशनया मोहो मिथ्यात्वं च समूल-टू मुन्मूल्यते इति भावः ॥९॥ सम्प्रति भगवतोवर्णनामाहात्म्यमाह अरिकरिहरितिण्हुण्हंबुचोराहिवाही-समरडमरमारीरुद्दखुद्दोवसग्गा । (अरिकरिहरितृष्णोष्णाम्बुचौराधिव्याधि-समरडमरमारिरौद्रक्षुद्रोपसर्गाः ।) ॥५८॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600121
Book TitleLaghvajit Shanti Stavanam
Original Sutra AuthorN/A
AuthorDharmtilak Muni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages26
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy