________________
AGARAAGAR
पलयमजियसंतीकित्तणे झत्ति जंती, निबिडतरतमोहा भक्खरालुंखियच ॥१०॥-मालिनी
(प्रलयं अजितशान्तिकीर्तने झगिति यान्ति, निविडतरतमओघाः भास्करालुसिता इव ॥ १०॥) व्याख्या-श्रीअजितशान्तिवर्णने सति झगिति-शीघ्रं यान्ति-गच्छन्ति । कम् ?, प्रलयं-क्षयम् । के?, अरिकरिहरितृष्णोष्णाम्बुचौराधिव्याधिसमरडमरमारिरौद्रक्षुद्रोपसर्गाः। अरयः-शत्रवः, करिणो-हस्तिनः, हरयः-सिंहाः, तृष्णा-पिपासा, उष्णः-आतपः, अम्बु-जलं, चौराः-तस्कराः, आधयो-मनोजनितपीडाविशेषाः, व्याधयो-ज्वरभगन्दरादयः,समरः-सङ्ग्रामः, डमरो-राजकृतोपद्रवः, मारिः-कुपितभूतपिशाचादिकृतप्राणिक्षयः, रौद्रक्षुद्रोपसर्गाः-भयानकक्रूराशयव्यन्तरादिविहितोपद्रवाः । एतेषामितरेतरद्वन्द्वसमासः। अत्रोपमानमाह-क इव प्रलयं यान्ति ?, निबिडतरमओघा इव-अतिगाढान्धकारप्रकरा इव । अत्रोपमानवचन इव शब्दो विशेषणपदाग्रे न्यस्तोऽप्यत्र विशेष्यपदपुरो योज्यते । कीदृशाः, "भक्खरालं-18 खियोति।भास्करण-आदित्येन आलुजिताः-स्पृष्टाः। "स्पृशः-फास-फंस-फरिस-छिप-छिलाहा-ऽऽलुंखा-ऽऽलिहाः" [८-४-१८२ है.] इत्यनेन स्पृशेरालुङ्खादेश इति ॥१०॥ अथ भगवतो रूपस्थध्यानद्वारेण स्तुतिमाह
निचियरियदारुद्दित्तझाणग्गिजाला-परिगयमिव गोरं चिंतियं जाण रूवं ।
(निचितदुरितदारूदीप्तध्यानाग्निज्वाला-परिगतमिव गौरं चिन्तितं ययोः रूपम् ।)
Jain Educate
For Private & Personal Use Only
T
wiainelibrary.org