SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ बैरा० ११ Jain Education ललियभुयलयाहिं पीणसोणित्थलीहिं, सय सुररमणीहिं वंदिया जेसि पाया ॥ १४ ॥ - मालिनी (ललितभुजलताभिः पीनश्रोणिस्थलीभिः, सदा सुररमणीभिः वन्दिताः ययोः पादाः ॥ १४ ॥ ) व्याख्या - "हुंतु ते मे पसन्ना" इति पूर्ववृत्तस्थं तच्छब्दवाक्यं अत्रापि सम्बध्यते । ययोः श्रीअजितशान्त्योः पादाः - क्रमाः वन्दिताः - प्रणताः । काभिः ?, सुररमणीभिः । सुरा - भवनपतिव्यन्तरज्योतिष्कवैमानिकास्तेषां रमण्यः - कामिन्यस्ताभिः । कथम् ?, सदा । कीदृशीभिः ?, क्षणशशिवदनाभिः । क्षण:- पूर्णिमारूपं पर्व, तस्य शशी-चन्द्रः, तद्वत् वदनं मुखं यासां तास्तथोक्तास्ताभिः । तथा फुल्लनेत्रोत्पलाभिः । नेत्राण्येवोत्पलानि - इन्दीवराणि नेत्रोत्पलानि, फुलानि - निर्निमेषत्वेन सदा विकस्वराणि नेत्रोत्पलानि - लोचनकमलानि यासां तास्तथोक्ता[स्ता ]भिः । तथा स्तनभरनम्राभिः । स्तनयोः - कुचयोर्भरःप्राग्भारो; गुरुत्वं तेन नम्रा - नताङ्ग्यः, ताभिः । 'नमिरीहिं'ति " शीलाद्यर्थस्येरः” [८-२-१४५ है ० । ] अनेन शीलाद्यर्थस्य इर (?) प्रत्ययस्य इरादेशः । तथा मुष्टिग्राह्योदरीभिः । मुष्टिना ग्राह्यमुदरं यासां तास्तथोक्तास्ताभिः । लक्षणयुक्ता हि स्त्रियः कृशोदरा एव भवन्ति । तथा ललितभुजलताभिः । ललिते - मनोहरे भुजलते - बाहुलते, बाहुवल्ल्यौ यासां तास्तथोक्तास्ताभिः । तथा पीनश्रोणिस्थलीभिः । पीना - उपचिता श्रोणिस्थली-कटितटी यासां तास्तथोक्तास्ताभिः । लता-स्थलीशब्दौ शोभावचनौ ॥१४॥ साम्प्रतं परमपुरुषार्थ हेतु संयमानुष्ठान विघ्नभूतरोगापहारं भगवतः सकाशात् प्रार्थयति - अरिसकिडिभकुट्टग्गंठिकासाइसार-क्खयजरवणलू आसाससोसोदराणि । (अर्शःकिटिभकुष्ठप्रन्थिकासातिसार-क्षयज्वरव्रणलूताश्वासशोषोदराणि । ) For Private & Personal Use Only jainelibrary.org
SR No.600121
Book TitleLaghvajit Shanti Stavanam
Original Sutra AuthorN/A
AuthorDharmtilak Muni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages26
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy