Book Title: Laghvajit Shanti Stavanam
Author(s): Dharmtilak Muni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 25
________________ गवन्तः सर्वेऽपि भिधीयते । नच कृतमस्ति, इति 54055 SRPESARO पायं ग्लपितसकलजनताकायं कृतान्तप्रायमशिवं महारक्ष इवोत्थितमभूत् । तच्च भाद्रपदकृष्णसप्तमीनिशीथसमये श्रीसर्वार्थसिद्धिमहाविमानतोऽतिविक्लवजनतोपकारायेव श्रीविश्वसेनराजप्रणयिन्याः श्रीअचिरादेव्याः कुक्षिशुक्तिपुटमचिन्त्यधाग्नि भगवत्यवतीर्णमात्रेपि तथा प्रपलायितं यथाऽनुद्भूतमिवासीत् । ततोऽस्य प्रभावात् सर्वत्र शान्तिरभूदिति मातृपितृभ्यां भगवतः शान्तीत्यभिधा चके । अतो यद्यपि भगवन्तः सर्वेऽपि विजयहेतवः श्रेयोहेतवश्च तथापि विशेषतो विजयः शान्तिश्चताभ्यामेव चक्रे, इत्येतयोरेव योगपद्येन पाक्षिकादिपर्वणि स्तोत्रमभिधीयते । नचैतदनागमिकम् , यतः श्रीमहावीरशिष्यश्रीनन्दिषेणमहर्षिणाऽपि विशेषतः पाक्षिकादिपर्वणि पाय्यं श्रीअजितशान्त्योः स्तवनं कृतमस्ति, इति तदनुक्रममनुवर्तमानः श्रीजिनवल्लभसूरिरपि तथैव चकार । अत्र प्रथमं वृत्तं शार्दूलच्छन्दसा, ततो वृत्तपञ्चदशक मालिनी छन्दसा, अन्तिमं वृत्तं द्विपदीछन्दसा विरचितमस्तीति भावः॥ इति श्रीधर्मतिलकमुनिविरचिता श्रीउल्लासिक्कमस्तोत्रवृत्तिः समाप्ता॥ [वृत्तिकृत्प्रशस्तिः] शश्वत्तापरजोजडत्वशमिका सच्छायतादायिका, धूताचारुचरित्रमुख्यकगुणैः प्राप्ता च काश्चिच्छ्यिम् । येषां कीर्तिपटीजगत्रयजनैः सम्प्राप्य नक्तं दिवं, व्यापार्येत भजेत नो मलिनतां शीर्येत वा न क्वचित् ॥१॥ १ उपलभ्यते कचिच्छ्रीमन्ने मिजिन शिष्य इत्यपि, यथा-"श्रीनेमिवचनाद्यात्रा-ऽऽगतः सर्वरुजापहम् । नन्दिषेणगणेशोऽत्रा-जितशान्तिस्तवं व्यधात् ॥१॥” इति विविधतीर्थकल्पान्तर्गते शत्रुञ्जयकरपे, एवमेव शत्रुञ्जयमहाकल्पेऽपि । For Private Personel Use Only T otainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26