Book Title: Laghvajit Shanti Stavanam Author(s): Dharmtilak Muni Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 6
________________ लघ्वजि० सविवरणम् ॥ ३ ॥ सयलजयहियाणं नाममित्तेण जाणं, विहडह लहु दुट्ठाणिट्ठदोघघ (थ) म् । ( सकलजगद्धितयोर्नाममात्रेण ययोः विघटते लघु दुष्टानिष्ट दोघट्टघ (थ) दृ: ।) नमिर सुरकिरीडुग्धिट्ठपायारविंदे, सययमजियसंती ते जिणिदेऽभिवंदे ॥ ४ ॥ - मालिनी ( नम्रसुरकिरीटोद्धृष्टपादारविन्दौ, सततमजितशान्ती तौ जिनेन्द्रावभिवन्दे || ४ || ) विव०–[ सततं-निरन्तरं ] अभिवन्दे - सर्वादरेण स्तुवे । कौ १, तौ - जिनेन्द्रौ । किंनामानौ ?, अजितशान्ती ! किंविधौ ?, नम्रसुरकिरीटोद्धृष्टपादारविन्दौ । नम्रा-नमनशीला ये सुरा वैमानिकादयस्तेषां किरीटानि - मुकुटानि, तैरुदृष्टे| उत्तेजिते पादारविन्दे - चरणकमले ययोस्तौ । तावभिवन्दे, ययोः सकलजगद्धितयोर्नाममात्रेण, गृहीतेनेति शेषः । किं ?, विघटते - विद्रवति । कः ?, दुष्टानिष्टदोघट्टघ (थ) ट्टः । दुष्टानि - दुःखजनकानि च तानि अनिष्टानि च प्रियविप्रयोगादीनि तान्येव दोघट्टा - हस्तिनस्तेषां घ (थ) दृ: - समूहः । अत्र प्राकृतत्वात् नपुंसकत्वम् । कथम् ?, लघु- शीघ्रं । सर्वत्र प्राकृतत्वात् द्विवचनेऽपि बहुवचनम् । एवमग्रेतनेष्वपि वृत्तेषु ज्ञेयम् ॥ ४ ॥ सम्प्रत्यनयोरेव भगवतोः पदभक्तिप्रभावं दर्शयति Jain Education International पसरइ वरकित्ती बहुए देहदित्ती, विलसह भुवि मित्ती जायए सुप्पवित्ती । ( प्रसरति वरकीर्तिः वर्धते देहदीप्तिः, विलसति भुवि मैत्री जायते सुप्रवृत्ति: । ) For Private & Personal Use Only प्रभोः प्रभावाति शयम् ॥ ५३ ॥ www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26