Book Title: Laghvajit Shanti Stavanam Author(s): Dharmtilak Muni Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 4
________________ लध्वजि० सविवरणम् CRICANCRECAREER | अनेकोपमया सम्पूर्णस्तुतेरकरणीयत्वम् विव०-'स समर्थः' स शक्तः । किं कर्तुम् ?, स्तोतुं-उत्कीर्तयितुम् । कम् ?, अजितं-द्वितीयतीर्थकरम् । अथवेति समुच्चये । शान्ति च-पोडशं जिनम् । यः किम् ?, यो मिनुयात्-एतावदेतदिति प्रमाणं कुर्यात् । किम् ?, चरमजलधि | नीरं-स्वयम्भूरमणसमुद्रजलम् । कैः ?, अञ्जलिभिः-प्रसूतिभिः, इतरसरोवरादिजलमप्यञ्जलिभिर्मातुं न शक्यते, किं पुनः समुद्रस्य ?, तत्रापि स्वयम्भूरमणसमुद्रस्य ?, परं तदपि यो मिनुयात् । तथा यो जयेत्-पराभवेत् । कम् ?, क्षयसमयसमीरं-प्रलयकालवातम् । कया?, गत्या-पादचङ्क्रमणेन । अन्योऽपि वातो गत्या जेतुं न शक्यते, क पुनः क्षयसमयसमीरः?, परं तमपि यः स्वगत्या पृष्टौ पातयित्वा पुरो याति । तथा [वा-अथवा यो लङ्घयेत्-आ[अतिक्रमितुं समर्थः स्यात् । किम् ?, सकलनभस्तलं-सर्वाकाशमण्डलम्, न पुनरेकदेशतः। [काभ्यां ?, पादाभ्यां] । समुद्रादिकमपि लङ्घयितुं न शक्यते, आस्तां नभस्तलम् , तत्रापि सकलम् , परं तदपि यो लङ्घयेत् , स समर्थः। स्तोतुम्' इति पदं त्रिष्वपि यच्छब्देषु प्रत्येकं योजनीयम् । अयमभिप्रायः-चरमजलधिनीरमानं क्षयसमयसमीरजयनं सकलनभस्तललङ्घनं च पटुरपि न कोऽपि कर्तुं समर्थः, एवं निरुपममहिमासमुद्रयोर्भगवतोगुणोत्कीर्तनमपीत्यर्थः ॥२॥ । यदि नाम एवं उक्तयुक्त्या भगवद्गुणोत्कीर्तने कस्यापि प्रागल्भ्यं नावलोक्यते, तर्हि किमिति तव तावत्तत्रोद्यमः? कथं च तत्प्रमाणपदवीमारोक्ष्यतीत्याशङ्कयाह तहवि हु बहुमाणुल्लासिभत्तिभरेणं, गुणकणमवि कित्तेहामि चिंतामणिव । ( तथापि खलु बहुमानोल्लासिभक्तिभरेण, गुणकणमपि कीर्तयिष्यामि चिन्तामणिमिव ।) ॥५२॥ Jain Education International For Private & Personel Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26