Book Title: Laghvajit Shanti Stavanam
Author(s): Dharmtilak Muni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 8
________________ लध्वजि० सविवरणम् सब देवाङ्गनानृत्योपहारवर्णनम् ॥४॥ विव०-अत्रातनवृत्तस्थं 'थुणह अजियसंती ते' इति तच्छब्दप्रधानं वाक्यं सम्बध्यते । ततश्च तावजितशान्ती स्तुत-वर्णयत । 'जहंसणच्छेयभीया इव पणमणमंदा कासि नहोवहार मिति सम्बन्धः । अकार्षुः-विदधुः । काः!, अनिमिषरमण्यः। प्राकृतत्वादत्र विभक्तिलोपः। अनिमिषाः-देवाः, तेषां रमण्या-स्त्रियः। कम् ?, नृत्योपहारम् । नृत्येननर्तनेन उपहारः-पूजा, तम् । कीदृश्यः ?, प्रणमनमन्दाः। प्रणमने-न्यङ्मस्तककरणे मन्दाः-अलसाः। किल नर्तक्यः प्रायः सम्मुखमवलोकयन्त्य एव नृत्यं कुर्वन्तीति स्वभावः । ततः कविनोत्प्रेक्ष्यते-न स्वभावतो, यद्दर्शनच्छेदभीता इव । ययोरजितशान्त्योदर्शनं-अवलोकनं भवशतेष्वपि दुष्प्रापं, तस्य छेदः-अन्तरायस्ततो भीता इव-चकिता इव, भूयोऽपि दुर्लभं भगवदर्शनं इति तदन्तरायं प्रणामकालभाविनमप्यसहन्त्य इत्यर्थः। कीदृशं नृत्योपहारम् ?, ललितपदप्रचारं । ललिताः-रमणीयाः पदप्रचाराः-स्वचरणन्यासा यत्र, तम् । पुनः किंविधम् ?, भूरिदिव्याङ्गहारं । भूरयः,-प्रभूता दिव्याः-परमोत्कर्षशालिनो अङ्गहाराः-अङ्गविक्षेपा यत्र, तम् । भूयोऽपि कीदृक् ?, स्फुटघनरसभावोदारशृङ्गारसारम् । स्फुटः-व्यक्तः, धनः-सान्द्रो योऽसौ रसः-शृङ्गारो भावो-रतिस्ताभ्यां उदारो योऽसौ शृङ्गारो-विभूषाप्रकारस्तेन सारंप्रधानम् । भावशृङ्गाररसाभ्यां बन्धुरमित्यर्थः ॥ ६॥ सम्प्रति भगवतोर्वर्णवर्णनापूर्वकं स्तुतिमाह थुणह अजियसंती ते कयासेससंती, कणयरयपिसंगा छज्जए जाण मुत्ती। (स्तुत अजितशान्ती तौ कृताशेषशान्ती, कनकरजःपिशङ्गा राजते ययोर्मूर्तिः।) x ॥ ५४॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26