Book Title: Laghvajit Shanti Stavanam
Author(s): Dharmtilak Muni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ भूतस्य-अर्थस्य समाश्रयणादेवम्भूतनयो भवति, तदयमप्यनन्तधर्माध्यासितस्य वस्तुनोऽनाश्रयणान्मिथ्यादृष्टिः, रत्नावल्यवयवे पद्मरागादौ कृतरत्नावलीव्यपदेशपुरुषवत् ॥७॥ तदेवं सर्वेऽपि नयाः प्रत्येकं साधारणाः सन्तो मिथ्यादृष्टयोऽन्योन्यं सव्यपेक्षास्तु सम्यक्त्वं भजन्ते, तदुक्तम् (१)॥ ततश्च बहुविधा-नानाप्रकारा नयभङ्गा-अभिप्रायविशेषविकल्पा यत्र तद् बहुविधनयभङ्गं, सर्वनयविषयधर्मात्मकमित्यर्थः। तथा नित्यं द्रव्यात्मकतया, अनित्यं पर्यायात्मकतया । तथा सत्-स्वकीयद्रव्यक्षेत्रकालस्वभावापेक्षया भावात्मकं, असत्परद्रव्यक्षेत्रकालस्वभावापेक्षया स्वभावात्मकम् । तथा अनभिलाप्यं वचनागोचरधर्मात्मकत्वेनावक्तव्यम् , अभिलाप्यं-17 वचनगोचरधर्मस्वभावत्वेन वक्तव्यम् । तथा एक-सामान्यात्मकं, अनेक-विशेषात्मकं । एवं परस्परविरुद्धधर्मात्मकवस्तुप्रतिपादकमित्यर्थः। एवंविधं च सत् कीदृशं जिनवचनम् ?, कुनयाः-सदात्मकमेव वस्तु इति साङ्ख्याः, असदात्मकमेवेति माध्यमिकाः, नित्यमेवैकमेवेति साङ्ख्याः, अनित्यमेवानेकमेवेति च बौद्धाः, अभिलाप्यमेवेति वैयाकरणाः, अनभिलाप्यमेवेति च बौद्धाः, 'प्रतिक्षणं नश्वरमितरव्यावृत्तं च वस्तु, तच्च न शब्दगोचरः, शब्दस्य स्थिरसामान्यरूपार्थविषयत्वात्' इति हि बौद्धराद्धान्तः, अनन्तधर्मात्मके वस्तुनि एकमेव धर्म, सदात्मकमेव वस्त्वित्यादि सावधारणमभिमन्यमाना मिथ्यादृष्टित्वेन कुत्सिता मतविशेषास्तेषां विरुद्ध-असमञ्जसतया प्रतिभासमानं । ननु नित्यमनित्यपरिहारेण व्यवस्थितं; अनित्यमपि नित्यपरिहारेण, भावाभावयोः परस्पराभावात्मकत्वात् , एवं च सदादिष्वपि वाच्यम् , तत एकत्र विरुद्धधर्मात्मकत्वप्रतिपादकं भगवद्वचनं कथं मिथ्यादृशामेव विरुद्धतया प्रतिभासत इत्युच्यते ?, इत्याशङ्कयाह Jain Education For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26