Book Title: Laghvajit Shanti Stavanam
Author(s): Dharmtilak Muni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नयवक्तव्यतायां शब्दद्वारकनयत्रिकस्वरूपम्
लध्वजिअयमपि सामान्यविशेषोभयात्मकस्य वस्तुनः सामान्यांशपरित्यागेन विशेषांशस्यैव समाश्रयणात् शौद्धोदनिवन्न सम्यग्सविवरणम् दृष्टिः, कारणभूतद्रव्यानभ्युपगमेन तदाश्रितस्य विशेषस्यैवाभावात् ॥४॥
तदिदमर्थस्वरूपनिरूपणप्रवणानां नयानां मतमुपवर्णितम् । अधुना शब्दद्वारकाणां मतमुपवर्ण्यते(५) इदं साधारणमात्रं त्रयाणामभिप्रायाकूतं, यदुत-शब्द एवार्थः, न ततो भिन्नोऽर्थः । तथाचानुमानम्-यस्मिन् प्रतीयमाने यन्नियमेन प्रतीयते तत्ततो न भिद्यते, यथा शब्दस्वरूपं शब्दात् , प्रतीयते च शब्दे प्रतीयमाने नियमेनार्थः, तस्मान्न ततो भिन्नः। सम्प्रत्ये कै]कमतं कथ्यते-तत्र शब्द्यते-आहूयतेऽनेनाभिप्रायेणार्थ इति शब्दः । अयमभिमन्यते)। गम्यते-रूढितो यावन्तो ध्वनयः कस्मिंश्चिदर्थे प्रवर्तन्ते, यथेन्द्रशक्रपुरन्दरादयः, अमी(ते)षां एकोऽर्थो वाच्यः इति ।। अयं चार्थशब्दपर्यायोभयरूपस्य वस्तुनः शब्दपर्यायस्यैव समाश्रयणान्मिथ्यादृष्टिः॥५॥ | (६) साम्प्रतं समभिरूढ उच्यते-पर्यायाणां नानार्थतया समभिरोहणात् समभिरूढः । नवयं घटादिपर्यायाणामेकार्थतामिच्छति । तथाहि-घटनाद् घटः । कुटनात् कुटः। को भातीति कुम्भः। न हि घटनमेव कुटनमिति, शब्दप्रवृत्तिनिमित्तस्य न परस्यानुगतिरिति । तदयमपि मिथ्यादृष्टिः, पर्यायाभिहितधर्मवद्वस्तुनोऽनाश्रयणात् , गृहीतप्रत्येकावयवान्ध- हस्तिज्ञानवत् ॥ ६॥
(७) एवम्भूताभिप्रायस्त्वेवं-यदैव शब्दप्रवृत्तिनिमित्तं चेष्टादिकं तस्मिन् घटादौ वस्तुनि भवेत् , तदैवासौ युवतिमस्तकारूढ उदकाद्याहरणक्रियाप्रवृत्तौ घटो भवति, न निर्व्यापारः, शब्दव्युत्पत्तिनिमित्तशून्यत्वात् , पटादिवत् । इत्येवम्प्रकारस्य
॥५६॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26