Book Title: Laghvajit Shanti Stavanam
Author(s): Dharmtilak Muni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 20
________________ लध्वजि० सविवरणम् भगवतोश्चारित्राङ्गीकारमाहात्म्य ॥१०॥ वर्णनम् व्याख्या-तौ-अजितशान्ती भवतां-स्याताम् । कीदृशौ भवताम् !, [इति] विशेषणे तात्पर्यम् । प्रसन्नौ-प्रसादपरौ । कस्य ?, मे-मम तौ प्रसादपरौ भवताम् । यो जिनौ किंविशिष्टौ ?, अनुप्रपन्नौ-अङ्गीकृतवन्तौ । किम् ?, चरणं-चारित्रम्। कीहक् ?, मुक्तिमार्ग। मुक्तौ-मुक्तिपत्तने मार्ग इव-पन्था इव, मुक्तिमार्ग, चरणमेव हि मुक्तिगमने मार्गः, यदुच्यते"सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्ग:"।[त०१-१] किं कृत्वा ?, छर्दित्वा-परित्यज्य । किम् ?, सकलपृथ्वीराज्यम् । कीदृशम् ?, हरिकरिपरिकीर्णम् । हरयः-केवाणबाहीकादिदेशोद्भवा जात्यास्तुरङ्गमाः, करिणो-भद्रजातीयसप्ताङ्गभूप्रतिष्ठितमतङ्गजास्तैः परि-समन्तात् कीर्ण-व्याप्तम् । तथा पुनः किंविशिष्टम् ?, पक्कपादातिपूर्ण । पक्का:-रिपुनिग्रहसमर्थाः पदातयः-पत्तयस्तैः पूर्ण-युक्तम् । कदाचिद्राज्यमपि पराभवपात्रं विडम्बना(कारक)पात्रं ब्रह्मदत्तचक्रिण इव भवति, तदा परित्यागोचितं भवतीत्याशङ्याह-आज्ञायां-आदेशे सज-प्रगुणं च तत्, सकलसामन्तैः सुरेन्द्रैरपि योजितकरकमलैः शासनं शिरसि धार्यते इति भावः। किमिव त्यक्तं राज्यं ?, तृणमिव । किंविधम् ?, पटलग्नम् । यथा पटलग्नं-वस्त्राञ्चलावलम्बितृणमाच्छोट्य त्यज्यते तथा तादृशमपि राज्यं छर्दितमिति भावः ॥ १३ ॥ सम्प्रति रमणीया(मर)रमणीवन्दनीयत्वप्रतिपादनद्वारेण स्तुतिमाह छणससिवयणाहिं फुल्लनीलुप्पलाहिं, थणभरनमिरीहिं मुट्ठिगिज्झोदरीहिं । (क्षणशशिवदनाभिः फुल्लनेत्रोत्पलाभिः, स्तनभरनम्राभिर्मुष्टिग्राह्योदरीभिः।) GRAMGARLS ॥६०॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26