Book Title: Laghvajit Shanti Stavanam
Author(s): Dharmtilak Muni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 19
________________ जलियजलणजालालिंगियाणं च झाणं, जणयइ लहु संतिं संतिनाहाजियाणं ॥१२॥-मालिनी (ज्वलितज्वलनज्वालालिङ्गितानां च ध्यानं, जनयति लघु शान्ति शान्तिनाथाजितयोः ॥ १२ ॥) व्याख्या-शान्तिनाथाजितयोानं-संस्मरणं कर्तृ [चिन्तिम् , लघु-शीघ्रम् ] । जनयति-करोति । काम् ? शान्तिशिवम् । केषाम् ?, अर्थाद् ध्यानकर्तृणाम् । कीदृशानाम् ?, अटविनिपतितानाम् । अटव्यां-अरण्ये, सार्थविच्छुट्टनादिकारणेन निपतितानां-संस्थितानाम् । तथा पार्थिवोत्रासितानाम् । पार्थिवैः स्वदेशपरदेशोद्भवैर्नृपतिभिरुत्रासितानां ता(भा)पितानाम् । तथा जलधिलहरिहियमाणानां, यानभङ्गादिनाऽन्तःपाते सति समुद्रवीचीभिरितस्ततः प्रेर्यमाणानाम् । तथा गुप्तिस्थितानां, गुप्तौ-कारागारे स्थितानां-प्रक्षिप्तानाम् । तथा ज्वलितज्वलनज्वालालिङ्गितानां, ज्वलितो-दीप्यमानश्चासौ ज्वलनो-दावानलादिलक्षणश्च, तस्य ज्वाला:-शिखास्ताभिः आलिङ्गिता-व्याप्तास्तेषाम् । अत्र प्रथमं शान्तिनाथनामोच्चारणं ततोऽजितस्यानुप्रासकारणात् छन्दोभङ्गभयाद् वा ॥१२॥ अथ साम्राज्यपरित्यागपूर्वक चारित्राङ्गीकारं भगवतोर्वर्णयन् प्रार्थनामाह हरिकरिपरिकिन्नं पक्कपाइकपुन्नं, सयलपुहविरजं छडिउं आणसजं । (हरिकरिपरिकीर्ण पक्कपादातिपूर्ण, सकलपृथिवीराज्यं छर्दित्वा आज्ञासज्जम् ।) तणमिव पडलग्गं जे जिणा मुत्तिमरगं, चरणमणुपवना हुतु ते मे पसन्ना ॥१३॥-मालिनी (तृणमिव पटलग्नं यौ जिनौ मुक्तिमार्ग, चरणमनुप्रपन्नौ भवतस्तौ मे प्रसन्नौ ॥ १३ ॥) in Education For Private & Personel Use Only Rainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26