Book Title: Laghvajit Shanti Stavanam
Author(s): Dharmtilak Muni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
(१) तत्र नैगमस्येदं स्वरूपम् , तद्यथा-निगम्यन्ते-विविक्तं परिच्छिद्यन्ते निगमा-घटादयोऽर्थास्तेषु भवो नैगमः। अथवा सामान्यविशेषात्मकस्य वस्तुनो न एकेन प्रकारेण गमः-परिच्छेदो नैकगमः । अयं हि सत्तालक्षणं महासामान्यमवान्तरसामान्यानि च द्रव्यत्वगुणत्वकर्मत्वजीवत्वादीनि तथाऽन्त्यविशेषानसाधारणरूपलक्षणान् अवान्तरविशेषांश्च परमावाश्रितघटादीन् शुक्लादीन् वाऽभिप्रेति । अयं च नैगमः सामान्यविशेषात्मकवस्तुसमाश्रयणेऽपि न सम्यग्दृष्टिः, भेदेनैव सामान्यविशेषयोराश्रयणात् , तन्मताश्रितनैयायिकवैशेषिकवत् ॥१॥ | (२) अधुना सङ्ग्रहाकूतं दयते-तत्र सङ्ग्रहाति समस्तविशेषप्रतिक्षेपद्वारेण सामान्यरूपतया सकलं वस्त्विति सङ्ग्रहः ।। तथाहि-अप्रच्युतानुत्पन्नस्थिरैकस्वभावमेव सत्तारूपं वस्तु, सत्ताव्यतिरिक्तस्य त्ववस्तुत्वं, खरविषाणस्येवेति । स च सङ्ग्रहः सामान्यविशेषात्मकस्य वस्तुनः सामान्यांशस्यैवाश्रयणान्मिथ्यादृष्टिः, तन्मताश्रितसाङ्ख्यवत् ॥२॥
(३) व्यवहारनयस्य तु स्वरूपमिदं-व्यवहियते लौकिकैरनेनाभिप्रायेणेति व्यवहारः। अयं तु मन्यते, यथा-लोकग्राहमेव वस्तु, न तु यथा शुष्कतार्किकैः स्वाभिप्रायलक्षणानुगतमुच्यते तथाभूतं, आगोपालाङ्गनादिप्रसिद्धत्वाद्वस्तुस्वरूपस्येति । अयमप्युत्पादव्ययध्रौव्यात्मकवस्त्वनभ्युपगमान्मिथ्यादृष्टिः, तथाविधरथ्यापुरुषवत् ॥३॥
(४) साम्प्रतं ऋजुसूत्राभिप्रायः कथ्यते-तत्र ऋजु-प्रगुणं अतीतानागतवस्तुपरित्यागेन वर्तमानक्षणवर्तिवस्तुनो रूपं द सूत्रयति-निष्टङ्कितं गमयतीति ऋजुसूत्रः । अस्याभिप्रायः-अतीतस्य विनष्टत्वात् अनागतस्यालब्धलाभत्वात् खरवि
पाणादिभ्योऽविशिष्यमाणतया नार्थक्रियानिर्वर्तनक्षमत्वम् । अर्थक्रियाक्षम वस्तु, तदभावान्न तयोर्वस्तुत्वमिति ऋजुसूत्रः ।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26