Book Title: Laghvajit Shanti Stavanam
Author(s): Dharmtilak Muni
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
SAUSAGESSOAREG
प्रतिपादकवत् स्वव्याघातकप्रतिज्ञाप्रतिपादनपरा न सहृदां वार्तनीयाः । तथाऽयमात्मा सामान्यरूपेण द्रव्यत्वादिना एकः, द्रव्यक्षेत्रकालस्वभावादिना सर्वेतरच्यावत्तेन रूपेणानेकः। यदि चैकरूप एव सर्वथा स्यात् । तदैकः सुखी अन्यो दुःखी एकः स्वपिति अन्यो जागर्ति इत्यादिभेदो न प्रतिभासेत । अथ नानारूप एव सर्वथा स्यात् । तदाऽयमा(त्माऽयमात्मेत्येकरूपावभासो न स्यात् । तदनयैव गत्या सर्वेऽपि पदार्था व्याख्येयाः। तदुक्तम्| "आदीपमाव्योमसमस्वभावं, स्याद्वादमुद्राऽनतिभेदिवस्तु । तन्नित्यमेवैकमनित्यमन्य-दिति त्वदाज्ञाद्विषतां प्रलापाः॥५॥"
[अन्ययोगव्यवच्छेदद्वात्रिंशिका] एवं च प्रतिभासमुद्गरप्रतिहतं स्याद्वादे विरोधोद्भावनं नोत्थातुमपि शक्नोतीत्यर्थः। अतएव 'अवयणिज्ज' अवचनीयं, विरोधाभावादशक्यदोषोद्भावनमित्यर्थः॥८॥ इदानीं भगवतोानप्रभावाविर्भावद्वारेण स्तुतिमाह
पसरइ तियलोए ताव मोहंऽधयारं, भमइ जयमसन्नं ताव मिच्छत्तछन्नं ।
(प्रसरति त्रैलोक्ये तावन्मोहान्धकार, भ्रमति जगदसंज्ञं तावन्मिध्यात्वच्छन्नम् ।) फुरइ फुडफलंताणतणाणंसुपूरो, पयडमजियसंतीझाणसूरो न जाव ॥९॥-मालिनी (स्फुरति स्फुटफलदनन्तज्ञानांशुपूरः, प्रकटमजितशान्तिध्यानसूरो न यावत् ॥ ९॥)
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26