Book Title: Laghvajit Shanti Stavanam
Author(s): Dharmtilak Muni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 10
________________ ब लध्वजि. सविवरणम् %- KISS XXX U बहविहनयभंगं वत्थु णिचं अणिचं, सदसदणभिलप्पालप्पमेगं अणेगं । स्थाद्वादोप(बहुविधनयभङ्गं वस्तु नित्यमनित्यं, सदसदनभिलाप्याभिलाप्यमेकमनेकम् । ) देशकत्वं इय कुनयविरुद्धं सुप्पसिद्धं च जेसिं, वयणमवयणिज्जं ते जिणे संभरामि ॥८॥ -मालिनी प्रभोस्तत्र (एवं कुनयविरुद्धं सुप्रसिद्धं च ययो-वचनमवचनीयं तौ जिनौ संस्मरामि ॥ ८॥) नयवक्तव्याख्या-तौ-अजितशान्ती संस्मरामि-ध्यायामि। कीदृशौ?, जिनौ-रागादिदोषजयिनी, आप्ताविति यावत् । आप्तिर्हि व्यता दोषक्षयमुच्यते, सा विद्यते ययोस्तावाप्तौ । आप्तत्वं च प्रमाणोपपन्नार्थवादित्वेनानुमीयते इति भगवतोर्वचनविशुद्धिमाह जेसिं' ययोर्वचनं स्याद्वादसन्नद्धमर्थतो द्वादशाङ्गरूपं "अत्थं भासइ अरिहा, सुत्तं गुंथंति गणहरा निउणं" इति वचनादस्तीति गम्यते । कीदृशम् ?, 'इय'-एवंप्रकारवस्तुप्रतिपादकम् । तमेव वस्तुप्रकारमाह-वस्तु वर्तते । किं-रूपम् ?,8 अनन्तधर्मात्मकं वस्तु स्वमतधर्मविशिष्टं नयन्ति-गोचरयन्ति संवेदनमारोपयन्तीति नयाः, वस्त्वेकदेशपरामर्शा इत्यर्थः ।। तथा चोक्तम्-"एकदेशविशिष्टोऽर्थो, नयस्य विषयो मतः" इति [न्यायावतारः श्लो० १९] । ते अनन्तधर्माध्यासितस्वाद्वस्तुतस्तेषां अनन्तता, तथापि सर्वत्र प्रसिद्धत्वात् सप्त भेदा वर्ण्यन्ते । अन्येषां तेष्वेवान्तर्भावात् । ते चामी-नैगमसङ्ग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूढ़े-वम्भूताख्याः सप्त नयाः। तेषां च मध्ये नैगमाद्याश्चत्वारोऽप्यर्थनयाः, अर्थमेव | ॥५५॥ प्राधान्येन शब्दोपसर्जनमिच्छन्ति । शब्दाद्यास्तु त्रयः शब्दनयाः, शब्दप्राधान्येनार्थमिच्छन्ति । * अर्थ भाषन्तेऽर्हन्तः, सूत्रं प्रश्नन्ति गणधरा निपुणम् । ECERECORRRRRRRRRROR RUS Jain Education Nional For Private & Personel Use Only Vrjainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26