Book Title: Laghvajit Shanti Stavanam Author(s): Dharmtilak Muni Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ RECAUSE सरभसपरिरंभारंभिनिवाणलच्छी-धणथणघुसिणंकुप्पंकपिंगीकयच्च ॥७॥-मालिनी ( सरभसपरिरम्भारम्भिनिर्वाणलक्ष्मी-घनस्तनघुमृणाङ्कोत्पङ्कपिङ्गीकृता इव ॥ ७ ॥) व्याख्या-स्तुत-नुत भो भव्याः!, कौ कर्मतापन्नौ ?, तौ अजितशान्ती । कीदृशौ ?, कृताशेषशान्ती । कृता-विहिता अशेषा-सम्पूर्णा जगत्रये शान्तिः-शिवं यकाभ्यां तौ । ययोः किं ?, 'छज्जए' इति राजते "राजेरग्घ-छज्ज-सह-रीर-रेहा" [८-४-१०० है. ] इति 'राजि' धातोश्छजादेशः। काऽसौ ?, मूर्तिः-तनुः । कीदृशी ?, कनकरजःपिशङ्गा । कनकस्य रजः-चूर्ण, तद्वत् पिशङ्गा-पीता, भगवतोः सुवर्णवर्णा मूर्तिरेषः स्वभावः, परं कविनोत्प्रेक्ष्यते-न स्वभावतः, किं तर्हि ?, सरभसपरिरम्भारम्भिनिर्वाणलक्ष्मीघनस्तनघुसणाङ्कोत्पङ्कपिङ्गीकृतेव । सरभसं-सौत्सुक्यं यथा भवति, एवं परिरम्भ-18 आलिङ्गन, तं आरभते-करोतीत्येवंशीला सरभसपरिरम्भारम्भिणी, सा चासौ निर्वाणलक्ष्मीश्च-मुक्तिनायिका च, तस्या घनौ-पीनौ च तौ स्तनौ च, तयोर्योऽसौ घुसृणाङ्कः-कुङ्कमविभूषा, तस्योत्कृष्टः पङ्को-द्रवः, तेन पिङ्गीकृतेव-पिञ्जरितेव । किल नायिकाः सकामाः शृङ्गारिण्यो नवयौवने निजस्तनकलशयोः कुङ्कमेन मण्डनं कुर्वन्ति । ततो यदा गाढानुरागेण 3 प्रियतमस्यालिङ्गनं कुर्वते तदा तत् स्तनमण्डनेन तस्याङ्गं पिञ्जरितं भवति, भगवतोरपि मुक्तेर्वधूत्वेन निरूपिताया आलिङ्गनं सम्भाव्यैवमुत्प्रेक्ष्यतेति भावः ॥७॥ सम्प्रति प्रमाणसुप्रतिष्ठस्याद्वादोपदेशकत्वद्वारेण भगवतोः स्तुतिमाह R ESCREENA वैरा०१० Jain Education DIL For Private Personel Use Only Mr.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26