Book Title: Laghvajit Shanti Stavanam
Author(s): Dharmtilak Muni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 7
________________ फुरइ परमतित्ती होइ संसारछित्ती, जिणजयपयभत्ती ही अचिंतोरुसत्ती ॥ ५ ॥ - मालिनी ( स्फुरति परमतृप्तिः भवति संसारछित्तिः, जिनयुगपद्भक्तिर्ही अचिन्त्योरुशक्तिः ॥ ५ ॥ ) विव० - वर्तते । काऽसौ ?, जिनयुगपदभक्तिः । जिनयोः - अजितशान्त्योः, युग-युग्मं, तस्य पदाः- चरणास्तेषु | भक्ति:- आन्तरा प्रीतिः प्रवर्तितशिरोनमनादिरूपा । कीदृशी ?, अचिन्त्योरुशक्तिः । अचिन्त्या - चिन्तयितुमशक्या उर्वी| गरिष्ठा शक्तिः - सामथ्यं प्रभावो यस्याः सा तथोक्ता । 'ही' इति शब्द आश्चर्ये । तथा च माघः - "ही विचित्रो विपाकः” | इति । कथं विज्ञायते ? इत्यत्राह - प्रसरति - विस्तारं गच्छति वरकीर्तिः- प्रधानं यशः, जिनपदयुगभक्तित इति गम्यम् । एवमग्रेऽपि । तथा वर्धते देहदीप्तिः- उज्जृम्भते शरीरकान्तिः । तथा विलसति भुवि मैत्री - विस्फूर्जति क्षितौ प्रीतिः । तथा जायते - सम्पद्यते शोभना सफलत्वेन प्रवृत्तिः - व्यापारः सुप्रवृत्तिः । तथा स्फुरति परमतृप्तिः - उल्लसति परमसन्तोषः । भवति संसारछित्तिः- सम्पद्यते भवविच्छेद इति ॥ ५ ॥ Jain Education International अथ देवाङ्गनानां भगवद्विषये नृत्यपूजाप्रतिपादनद्वारेण स्तुतिमाह - ललियपयपयारं भूरिदिवंगहारं, फुडघणरसभावोदारसिंगारसारं । (ललितपदप्रचारं भूरिदिव्याङ्गहारं, स्फुटघनरसभावोदारशृङ्गारसारम् । ) अणिमिसरमणी जहंसणच्छेय भीया, इव पणमणमंदा कासि नोवहारं ॥ ६ ॥ - मालिनी ( अनिमिषरमण्यो यद्दर्शनच्छेदभीताः, इव प्रणमनमन्दा अकार्षुर्नृत्योपहारम् ॥ ६ ॥ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26