Book Title: Laghvajit Shanti Stavanam
Author(s): Dharmtilak Muni
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 3
________________ क्रमाणां - अंहीणां नखा-नखराः, तेभ्यो निर्गता याः प्रभाः कान्तयः, तेषां दण्डाः- सम्मिलितरुचिप्रपञ्चाः। उल्लासिन-ऊर्ध्व| मुखं गच्छन्तो ये क्रमनखनिर्गतप्रभादण्डाः, तेषां छलं - व्याजः, तेन । यः किल यं मार्ग दर्शयति स तदभिमुखं दण्डादिकं व्यापार्य दर्शयति, ततो भगवतोरपि ऊर्ध्वोल्लसत्पदनखकिरणदण्डौ प्रणमतः प्रति मुक्तिमार्ग ऊर्ध्वं वर्तमानं दर्शयन्ताविवो - त्प्रेक्ष्यते । तथा पुनः कीदृशौ ?, निर्यज्ज्ञानाङ्कुरोत्करौ, ज्ञानस्याङ्कुरा ज्ञानाङ्कुराः, तेषां उत्करः- समूहः, निर्यन-निर्गच्छन् ज्ञानाङ्करोत्करौ यकाभ्यां तौ निर्यज्ज्ञानाङ्करोत्करौ । कस्मात् ?, कुन्देन्दुज्वलदन्तकान्तिमिषतः । कुन्दं - माध्यं पुष्पं, इन्दुश्चन्द्रः, तयोरिवोज्ज्वलाः- शुभ्रा ये दन्ता-रदास्तेषां कान्तिः - प्रभा, तस्या मिषं - व्याजः, तस्मात् । एतेन भगवतोर्ज्ञानक्षेत्रत्वमुक्तं स्यात् ॥ १ ॥ भगवत्स्तुतिप्रतिज्ञां [प्रतिज्ञाय ] स्वस्य रामसिक्यविलसितं दर्शयितुं भगवत्स्तुताव सामर्थ्य माह Jain Education International चरम जलहिनीरं जो मिणिज्जंजलीहिं, खयसमयसमीरं जो जिणिजा गईए । ( चरमजलधिनीरं यो मिनुयादञ्जलिभिः, क्षयसमयसमीरं यो जयेद्गत्या । ) सयल नहयलं वा लंघए जो पएहिं, अजियमहव संतिं सो समत्थो धुणेउं ॥ २ ॥ - मालिनी ( सकलनभस्तलं वा लङ्घयेद्यः पदैः, अजितमथवा शान्ति स समर्थः स्तोतुम् ॥ २ ॥ ) १ “माघे भवं माध्यम्” इत्यमरवृत्तौ । २ "ननमयययुतेयं मालिनी भोगिलोकैः ॥८४॥ यतिरिति वृत्तरत्नाकरे तृतीयेऽध्याये । For Private & Personal Use Only नगणः - नगणः - मगणः - यगणः- यगणः 111 ||| SSS ISS ISS अष्टभिस्सप्तभिश्च www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26