________________
रामचन्द्रसूरिविरचितं
राजा - भद्रे ! त्वदीयमेतदाभरणम् १ | कौमुदी -- ( सलज्जं ) ( क ) अध इं १ । राजा - अमात्य !
५६
दम्पत्योरियमाकृतिरयं च वाचां दृशां च विनिवेशः । पिशुनयति साधुभावं चौर्य तु करण्डको वेदति ॥ ६ ॥ कामरतिः - देव ! मा शङ्किष्ठाः । तस्कर एवायम् । कथमपरया विषम संख्योऽयं नेपथ्यप्रकारः १ । राजा - ( कौमुदीं विलोक्य )
अस्याः सरोरुहदृशः सततोदयं च निर्लाञ्छनं च विरचय्य मुखं विधातुः । खण्डोदयं च जनविश्रुतलाञ्छनं च चन्द्रं पुनर्घटयतो विदितो विचारः ॥ ७ ॥ कामरतिः - ( साभिलाषं ) देव !
अज्ञातलक्ष्मणि सदोदयवृत्तभाजि
पूर्व सरोरुहदृशां घटिते मुखेन्दौ । सारूप्यदूषणभयाद्विधिनायमिन्दुः
पक्षक्षयी च घटितः स्फुटलाञ्छनश्च ॥ ८ ॥ ( पुनः स्वगतं ) विफल एव ममावतारो यद्यनया सह
न क्रीडामि ।
(क) अथ किम् ? | १ ख- ' दिशति ' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org